Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 61
________________ निर्वाणकलिका. ॥ २ ॥ Jain Education In | टिविभागे । ठ दक्षिणोरुणि । ड दक्षिणजङ्घायां । ढ पादगुल्फे । ण पादाङ्गुलिषु । एवं तवर्गं वामपादविभागेषु । प द|क्षिणकुक्षौ । फ वामकुक्षौ । व पृष्ठवंशे । भनाभौ । म हृदये । य त्वचि । र रक्ते । ल मांसे । व वसायां । श स्नायुनि । ष अस्थिषु । स शुक्रे । ह प्राणापानयोः । क्ष क्रोधक्षये । वज्रकवचे । प वज्रास्त्रे । भूतं दिक्षु विन्यसेदिति । यहा | मातृका कवच भङ्गया तत्र प्रणवादि बीजपञ्चकं पूर्ववदानने विन्यस्यानन्तरमेकोनपञ्चाशत् हृदये कल्पितपदेषु दक्षिणांसात् प्रभृत्यजादिवर्णमातृकाः प्रदक्षिणगतिना तावद्विन्यसेद्यावन्मध्यपदे शून्यमिति । ततो ळ दक्षिकर्णश| कुल्यां । क्ष वामकर्णशष्कुल्यां । क दक्षिणकर्णपाशे । ४ प वामकर्णपाशेन्यसेदित्येवं मन्त्रमयं कवचं कृत्वा । हृदयं हृदि । शिरसि शिरः । शिखायां शिखा । कवचं सर्वगात्रेषु । अस्त्रं प्राच्या दिदिक्षु विन्यस्य । ॐभूरसि भूतधात्रि सर्वभूतहिते विचित्रवर्णैरलङ्कृते देवि भूमि शुद्धिं कुरु कुरु स्वाहेति निरीक्षणविधिना स्थानशुद्धिं विधाय । हृदये पूजया । नाभौ होमेन । भ्रूमध्ये ध्यानेन । बाह्ययागवदन्तर्यागं कृत्वार्ध पात्रमस्त्रेण प्रक्षाल्य बिन्दुध्यानादमृतरूपे|णाम्भसा पुष्पदूर्वाक्षतोपेतेन मन्त्रसहितया प्रसृज्य सम्पूज्य च धेनुमुद्रया प्रबोध्य वर्मणावगुण्ठ्य ततोऽपि चात्मानं मूर्धन्यभिषिच्य पुष्पादिवत्रजातं शुद्ध्यर्थमस्त्रेण सम्प्रोक्ष्य कवचेनाभ्युक्ष्य हृदयेनाभिमन्त्रय चन्दनेन तिलकं कृत्वा खशिरसि मूलमन्त्रेण पुष्पमारोपयेत् । ततो यथाभिमतं मौनं कृत्वा श्रुतमात्रोच्चारेण मन्त्र शुद्धिं विधाय पूर्वदत्तपुष्पाण्यस्त्रेणापनीय ईशान्यां निक्षिप्यास्त्रवारिणा प्रक्षालनेन देवशुद्धिं विदध्यात् । सर्वत्राप्यात्माश्रयद्र१ प्लुतमन्त्रोच्चारेण इति ग. पाठः । For Private & Personal Use Only नित्यकर्मविधि. ॥ २ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138