Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 12
________________ निर्वाणकलिका. भूमिका. ॥४॥ NAGARIGANGANA सूरिणा पिशाचाद्यधिष्ठानभूतस्यापि विम्बस्य पुनरुद्धारो विहित इत्यपि अल्पज्ञैः पिशाचादीनां चर्चा न गण्यमान्यप्राज्ञसंमतेति कथयद्भि-8 विचारणीयम् । अस्मिन् निबन्धकारे निवसतां गुणानां गणनायां तु नाहं प्रवृत्तो न वा स मम साध्यस्तथापीति तूच्यते यत् सूरिणा प्रसङ्गमुत्थाप्य मतान्तरचर्चापि नाहता का कथा निन्दायाः एतस्यैव नाम पाण्डित्यम् । द एतत्सूरिवर्यकृतास्तरङ्गवतीकथाप्रश्नप्रकाशशत्रुजयकल्पनामानोऽपि निबन्धा आकर्ण्यन्ते । प्राकृतभाषानिबद्धायास्तरङ्गवतीकथाया संक्षेपः कृतो नेमिचन्द्रसूरिणा सूरिप्रकाण्डेन । शत्रुजयकल्पस्तु श्रीभद्रबाहुखामिकृतस्य श्रीवत्रस्वामिनोद्धृतस्य संक्षेपरूपः । अस्मादेव सारमुद्धृत्य संक्षेपेण प्रणीतः शत्रुजयकल्पः श्रीजिनप्रभसूरिणा । कल्पः प्राभृततः पूर्व कृतः श्रीभद्रबाहुना । श्रीवत्रेण ततः पादलिप्ताचा-31 यस्ततः परम् । इतोप्युद्धत्य संक्षेपात्प्रणीत: कामितप्रदः । श्रीशत्रुजयकल्पोऽयं श्रीजिनप्रभसूरिभिरिति प्रमाणमत्रार्थे । ग्रन्थकृता तथा चागम इति कृत्वा प्रमाणरूपतयोदाहृतास्तास्ता गाथाः पूर्वागमानाम् । ____एतस्य पादलिप्तसूरीश्वरस्येतिवृत्तं प्रभावकचरिते पादलिप्तप्रबन्धे वर्णितमस्ति तत एवैतजिज्ञासुभिर्द्रष्टव्यम्। कोशलायां पुरि फुल्लप्रतिमाभ्यां महामुनेरस्य जन्म कृपातः शासनदेवतायाः श्रीपार्श्वनाथायतनायतनाया आशीर्वादतश्चार्यनागहस्तिसूरीणाम् । गर्भादष्टमे वर्षे विद्यारम्भो ? वर्षेणैव चाध्ययनं सर्वविद्यानां वैदग्ध्यातिशयमहिमवशात् । तासु तासु राजसभासु तैस्तैः पण्डितप्रकाण्डैस्सह शास्त्रार्थो विजयश्च वर्णितो विस्तरेण । जन्मसमयस्त्वेषां बहूहापोहपुरस्सरमाजभाषाभूमिकायां वी. ए. (ऑनर्स), एलूएल्. बी. सोलीसीटराद्युपाधिधारिणा श्रीभगवान्-8 ॥४॥ दासजीतनयेन पण्डित श्रावकश्री मोहनलालजीयनेन लिखितायां सुनिरूपितो वर्तते सच विक्रमसम्वत्सरस्य तृतीये वर्षे प्रतिभाति रमापतिमिश्रः BREAK Jain Education Internas For Private & Personal use only O w.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 138