Book Title: Nirvankalika Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri Publisher: Nathmalji Kaniyalalji Mumbai View full book textPage 9
________________ भूमिका. निर्वाण- रोहिण्यादिविद्यादेवीना-चक्रेश्वरी-महाम्बिका-पद्मावती-सिद्धेश्वरीप्रभृतिशासनदेवतानां चाराधनप्रकारबोधकानां वर्णभेदेनापि तत्तद्वर्णमान्यानां कलिका.87 (ब्राह्मणेषु विशेषतया महासरस्वती, क्षत्रियेषु महाकाली, वैश्येषु महालक्ष्मीः, शूद्रेषु मातङ्गी, स्वस्वस्वभावानुकूलविधिनोपासनायामधिका 8 गण्यते । सामान्यतया तु सर्वत्र सर्वाः। काम्योपासनायां तत्र तत्र कामनायां सर्वासां मातृणां वैशिष्ट्यम् ) तत्रागमानामपि बाहुल्यमासीदेवात्र ॥२॥ सरित्स्वामिस्थानीये जैनागमे । (जैनजनतायास्तत्रमार्गस्तु काश्मीर इति प्रतीयते । यतो हि तत्र तत्रे श्रीमदर्हतः शिवरूपस्य ज्ञानशक्तिरूपायाः महासरस्वतीदेवतायाः प्राधान्यम् । सकलजैनाचार्यहृद्वर्तिनः सूरिमन्त्रस्य पञ्चमहापीठानां मध्ये प्रथममहापीठाधिदेवता चेयमेव देवता । श्रीहेमचन्द्राचार्यादिभिरस्मिन्पीठेऽस्याः काश्मीरवासिन्था एव कृतोपासना सरस्वतीसहस्रनानि जैनमार्गप्रबोधिनीत्यन्यतमं नामापि सरस्वत्या दृश्यते । एतेषामपि रत्नानामलभ्यत्वे दुर्लभत्वे वा प्रोक्तो विशिष्टः काल एव कारणम् । अधिकारिणामभावे सर्वज्ञकल्पानामादरणीयानामपि तेषां तेषामागमानां क्षुल्लकातिक्षुल्लककर्तृकनिन्दायामपि हेतुस्स काल एव । कालस्यैव माहात्म्यमेतत् तस्यैवायं विलासो यधुना | किमपि स्वल्पमपि जानाति सोऽपि हसति सम्प्रदायसर्वस्वान क्रियानिष्णाताँस्ताँस्तांस्तात्रिकान् सूरिसत्तमान् भूतपूर्वान् । देशान्तरसंस्कारस्य प्रभूततया स्वसंस्कारस्य सुतरां विस्मृततया पूर्वाचार्यपरिहासपरायणो न चिन्तयति तेषां सामर्थ्यम् । पश्यति च पाठितानामपि तत्तत्कर्षकतत्तद्विषयकनिबन्धानां तात्पर्यावगमे स्वस्यासामर्थ्य तथापि न मन्यते स्वस्यासद्भूतविषयावगाहिबोधपहिलता, नावमन्यते च प्रजाधःपातविधायक प्रकीर्यमाणमात्मनः कुतर्कमित्यत्र किं वक्तव्यमन्यत्कारणमृते कालात्। किं बहु मोऽनुपादेयस्योपादानेऽनुपादाने चोपादेयस्य हेतुः काल एव । अधिकारिभेदेन प्रवृत्ती प्रवर्तके तदुपाये च सिद्धेऽपि भेदे तत्कृतेऽपेक्षितेऽपि तत्तद्विषयप्रधाने तत्र तत्र शास्त्रे, परमार्थतश्चान्ते तत्तच्छास्त्रस्यापि १. मुक्तावेव तात्पर्य निश्चये नेदं शास्त्रमाहतानां सम्मतं नैतस्य प्रचारकृते जैनैर्विधेयो यत्न इत्यादि कर्णकटुप्रलापेऽपि काल एव कारणम् । 0% A5 ॥ 4%%E Jain Education Internate For Private & Personal use only (oilsw.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 138