Book Title: Nayamrutam Part 02
Author(s): 
Publisher: Shubhabhilasha Trust

View full book text
Previous | Next

Page 38
________________ संस्कृत कृति १५ तं प्रति प्रस्थकं कथयति सङ्ग्रहनयः, नान्यथा। नैगमव्यवहारनयौ कारणे कार्यं मन्येते, सङ्ग्रहनयस्तु कारणे कार्यं न मन्यते, केवलं निष्पन्नं कार्यमेव मन्यते । नैगमव्यवहारौ अविशुद्धौ तदपेक्षया सङ्ग्रहनयः शुद्धः इति सङ्ग्रहः। अथ ऋजुनयवचनम्। यथा केवलं धान्यमापहेतुभूतं मानविशेषः स एव प्रस्थको नान्यत्। ऋजुनयो वर्तमानसमयग्राही अतः सङ्ग्रहनयात् शुद्धः । सङ्ग्रहस्तु प्रस्थकमेयधान्यपुञ्जधान्यभृतप्रस्थक इत्यादिसमुदायस्य प्रस्थकः कथयति। अत ऋजुनयापेक्षया सङ्ग्रहनयोऽविशुद्धः यतोऽयं त्रिकालग्राही। अथ शब्दादिनयत्रयाणामेकत्र दृष्टान्तं कथयति । एते शब्दादित्रयो नयाः शब्दस्य प्राधान्यं मन्यन्ते, न तु अर्थस्य। अत एते शब्दनयाः यत्र शब्दव्यवस्था तत्रैवार्थो वाच्यः । तर्हि प्रस्थकस्यावस्था प्रस्थकस्य ज्ञानोपयोगवति पुरुषे स्थितास्ति तर्हि स पुरुष एव प्रस्थको नान्यः । यो यादृशे यादृशे उपयोगे प्राणी वर्तते स तदुपयोगवान् कथ्यते। यथा रागोपयोगे वर्तते इति रागी, द्वेषोपयोगे वर्तते इति द्वेषी। तथा प्रस्थकस्योपयोगो यस्मिन्स नरः प्रस्थक उच्यते प्रस्थकोपयोगयुक्तः प्रस्थकः । श्रीहेमचन्द्राचार्याः शब्दादिभिस्त्रिभिर्नयैः प्रस्थकोपयोगी नरः एव प्रस्थको मन्यन्ते, न तूपयोगी। काष्टभाजनस्य प्रस्थस्य यद् ज्ञानं तत्पुरुषे एवास्ति, न तु काष्टे अचेतनरूपत्वाद्। इति प्रस्थदृष्टान्ते सप्तनयभावना। अथ वसतिदृष्टान्ते सप्तनयान् दर्शयति । यथा केनापि वैदेशिकपुरुषेण पाटलीपुत्रवास्तव्यो नरः पृष्टस्त्वं क्व वससि? तेनोक्तम्- लोकमध्ये । इदमविशुद्धनैगमवचनम्, लोकस्तु चतुर्दशरज्जुप्रमाणो न ज्ञायते त्वं क्व वससि? तदा तेनोक्तम्-अहं तिर्यग् लोके वसामि। प्रथमवचनात्किञ्चित् शुद्धमिदम्, लोकद्वयपरित्यागात्। पुनः पृष्टम्- तिर्यग् लोके क्व वससि? तेनोक्तम्- जम्बूद्वीपे । पूर्ववचनापेक्षयेदं शुद्धम्। पुनः पृष्टम्- क्व वससि? भरतक्षेत्रे। पूर्वोक्तादिदं शुद्धम्। पुनः पृष्टम्- क्व वससि? तेनोक्तम्- मगधदेशे। चतुर्थात्पञ्चमः शुद्धः, चतुर्थमध्ये द्वात्रिंशत्सहस्रदेशावभासता अस्ति पञ्चमे एक एव मगधदेशो भासते, नान्यः । पुनः पृष्टम्- क्व वससि ? तेनोक्तम्- पाटलिपुत्रनाम्नि नगरे। पञ्चमादयं षष्ठः शुद्धः। मगधदेशस्थ सकलपाटकभ्रान्तेरभावात्। पुनरुक्तम्- - देवदत्तस्य पाटके वसति । परं कीदृशे गृहे? तेनोक्तम्पूर्वाभिमुखप्रशस्तकमलादिचित्रोपलक्षितरुचिरणोपशोभितप्रशस्तरक्तनूतनकपाटयुक्ते रतायुन्नत्तगवाक्षलक्षे ईदृशे गृहेऽहं वसामि। एषोऽष्टमो नैगमनयः सप्तमनैगमात् शुद्धः। इति नैगमः। नैगमव्यवहारयोर्वचनं साम्यम्, न भिन्नत्वम्। अथ सङ्ग्रह उच्यते। यदा स पुरुष आसनादौ उपविष्टो भवेत्तदैव तत्र वसतीति मन्यते सङ्ग्रहनयो नान्यथा। चलनादिक्रियायुक्तो नरो न तत्र वसतीति मन्यते सङ्ग्रहः। इत्थं सर्वत्र विचार्यम्। इति सङ्ग्रहनयः । अथ ऋजुनयः आसने आकाशप्रदेशाः सन्ति न तत्र सर्वत्र वसति किं तु यावत् आकाशप्रदेशान् अवरुध्योपविष्टोऽस्ति नरः स तत्रैव वसति नान्यत्र । प्रवर्तमानसमये वसति नान्यस्मिन्समये । एवं सर्वत्र ज्ञेयम् इति ऋजुनयः ।४ अथ शब्दादिनयत्रयं कथयति । सर्वं वस्तु स्वात्मन्येव वर्तते, न त्वात्मव्यतिरिक्तेऽधिकरण इति वचनात् सर्वोऽपि पुरुषादिपदार्थः स्वरूपे स्वभावे वसति, न तु परस्वभावे आकाशप्रदेशे इति वसतिदृष्टान्तः। अथ प्रदेशदृष्टान्ते सप्तनयान् अवतारयति। क्वचिद्विद्वज्जनमण्डल्यां प्रदेशप्रवृत्तौ जायमानायां सत्यां केनापि पृष्टम्- कस्य मध्यप्रदेशः तदैकः कश्चित्पण्डितो नैगमनयबलं व्यवक्तीदं धर्मास्तिकायः (१) अधर्मास्तिकायः (२)

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202