________________
संस्कृत कृति
१५
तं प्रति प्रस्थकं कथयति सङ्ग्रहनयः, नान्यथा। नैगमव्यवहारनयौ कारणे कार्यं मन्येते, सङ्ग्रहनयस्तु कारणे कार्यं न मन्यते, केवलं निष्पन्नं कार्यमेव मन्यते । नैगमव्यवहारौ अविशुद्धौ तदपेक्षया सङ्ग्रहनयः शुद्धः इति सङ्ग्रहः।
अथ ऋजुनयवचनम्। यथा केवलं धान्यमापहेतुभूतं मानविशेषः स एव प्रस्थको नान्यत्। ऋजुनयो वर्तमानसमयग्राही अतः सङ्ग्रहनयात् शुद्धः । सङ्ग्रहस्तु प्रस्थकमेयधान्यपुञ्जधान्यभृतप्रस्थक इत्यादिसमुदायस्य प्रस्थकः कथयति। अत ऋजुनयापेक्षया सङ्ग्रहनयोऽविशुद्धः यतोऽयं त्रिकालग्राही।
अथ शब्दादिनयत्रयाणामेकत्र दृष्टान्तं कथयति । एते शब्दादित्रयो नयाः शब्दस्य प्राधान्यं मन्यन्ते, न तु अर्थस्य। अत एते शब्दनयाः यत्र शब्दव्यवस्था तत्रैवार्थो वाच्यः । तर्हि प्रस्थकस्यावस्था प्रस्थकस्य ज्ञानोपयोगवति पुरुषे स्थितास्ति तर्हि स पुरुष एव प्रस्थको नान्यः । यो यादृशे यादृशे उपयोगे प्राणी वर्तते स तदुपयोगवान् कथ्यते। यथा रागोपयोगे वर्तते इति रागी, द्वेषोपयोगे वर्तते इति द्वेषी। तथा प्रस्थकस्योपयोगो यस्मिन्स नरः प्रस्थक उच्यते प्रस्थकोपयोगयुक्तः प्रस्थकः । श्रीहेमचन्द्राचार्याः शब्दादिभिस्त्रिभिर्नयैः प्रस्थकोपयोगी नरः एव प्रस्थको मन्यन्ते, न तूपयोगी। काष्टभाजनस्य प्रस्थस्य यद् ज्ञानं तत्पुरुषे एवास्ति, न तु काष्टे अचेतनरूपत्वाद्। इति प्रस्थदृष्टान्ते
सप्तनयभावना।
अथ वसतिदृष्टान्ते सप्तनयान् दर्शयति । यथा केनापि वैदेशिकपुरुषेण पाटलीपुत्रवास्तव्यो नरः पृष्टस्त्वं क्व वससि? तेनोक्तम्- लोकमध्ये । इदमविशुद्धनैगमवचनम्, लोकस्तु चतुर्दशरज्जुप्रमाणो न ज्ञायते त्वं क्व वससि? तदा तेनोक्तम्-अहं तिर्यग् लोके वसामि। प्रथमवचनात्किञ्चित् शुद्धमिदम्, लोकद्वयपरित्यागात्। पुनः पृष्टम्- तिर्यग् लोके क्व वससि? तेनोक्तम्- जम्बूद्वीपे । पूर्ववचनापेक्षयेदं शुद्धम्। पुनः पृष्टम्- क्व वससि? भरतक्षेत्रे। पूर्वोक्तादिदं शुद्धम्। पुनः पृष्टम्- क्व वससि? तेनोक्तम्- मगधदेशे। चतुर्थात्पञ्चमः शुद्धः, चतुर्थमध्ये द्वात्रिंशत्सहस्रदेशावभासता अस्ति पञ्चमे एक एव मगधदेशो भासते, नान्यः । पुनः पृष्टम्- क्व वससि ? तेनोक्तम्- पाटलिपुत्रनाम्नि नगरे। पञ्चमादयं षष्ठः शुद्धः। मगधदेशस्थ सकलपाटकभ्रान्तेरभावात्। पुनरुक्तम्- - देवदत्तस्य पाटके वसति । परं कीदृशे गृहे? तेनोक्तम्पूर्वाभिमुखप्रशस्तकमलादिचित्रोपलक्षितरुचिरणोपशोभितप्रशस्तरक्तनूतनकपाटयुक्ते रतायुन्नत्तगवाक्षलक्षे ईदृशे गृहेऽहं वसामि। एषोऽष्टमो नैगमनयः सप्तमनैगमात् शुद्धः। इति नैगमः। नैगमव्यवहारयोर्वचनं साम्यम्, न भिन्नत्वम्।
अथ सङ्ग्रह उच्यते। यदा स पुरुष आसनादौ उपविष्टो भवेत्तदैव तत्र वसतीति मन्यते सङ्ग्रहनयो नान्यथा। चलनादिक्रियायुक्तो नरो न तत्र वसतीति मन्यते सङ्ग्रहः। इत्थं सर्वत्र विचार्यम्। इति सङ्ग्रहनयः ।
अथ ऋजुनयः आसने आकाशप्रदेशाः सन्ति न तत्र सर्वत्र वसति किं तु यावत् आकाशप्रदेशान् अवरुध्योपविष्टोऽस्ति नरः स तत्रैव वसति नान्यत्र । प्रवर्तमानसमये वसति नान्यस्मिन्समये । एवं सर्वत्र ज्ञेयम् इति ऋजुनयः ।४
अथ शब्दादिनयत्रयं कथयति । सर्वं वस्तु स्वात्मन्येव वर्तते, न त्वात्मव्यतिरिक्तेऽधिकरण इति वचनात् सर्वोऽपि पुरुषादिपदार्थः स्वरूपे स्वभावे वसति, न तु परस्वभावे आकाशप्रदेशे इति वसतिदृष्टान्तः।
अथ प्रदेशदृष्टान्ते सप्तनयान् अवतारयति। क्वचिद्विद्वज्जनमण्डल्यां प्रदेशप्रवृत्तौ जायमानायां सत्यां केनापि पृष्टम्- कस्य मध्यप्रदेशः तदैकः कश्चित्पण्डितो नैगमनयबलं व्यवक्तीदं धर्मास्तिकायः (१) अधर्मास्तिकायः (२)