SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ नयामृतम्-२ तथा पूर्वं शब्दः पश्चादर्थोऽतः शब्दे प्राधान्यं ततः शब्दनयो नार्थनयः। अयमपि नयो वर्तमानपर्यायग्राही ऋजुसूत्रनयापेक्षयायं शुद्धस्तत्कथम्? स तु लिङ्गवचनशून्यं सामान्य वस्तु कथयति, अयं तु शब्दनयो लिङ्गवचनयुक्तं कथयति। यथा पुरुषस्त्रीज्ञानं पुरुषः पुरुषौ पुरुषाः, स्त्री स्त्रियौ स्त्रियः, ज्ञानं ज्ञाने ज्ञानानि सर्ववस्तुपदार्थलिङ्गवचनादिविशेषवाचकः शब्दनयः। इति शब्दनयः। ____ अथ समभिरूढनयः। तल्लक्षणं यावन्तो नामपर्यायशब्दाः सन्ति तावन्तः सर्वेऽपि व्युत्पत्त्या भिन्नभिन्नार्थप्रकाशकाः इति समभिरूढनयार्थः। यथा इन्द्रनामानि बहूनि सन्ति इन्द्रः, शक्रः, पुरन्दरः, शचीपतिरित्यादि सर्वाण्यपि इन्द्राश्रितानि परं व्युत्पत्त्या भिन्नार्थानि यथा इन्दति परमैश्वर्यं प्राप्नोतीति इन्द्रः, शक्नोतीति शक्रः शक्तिमान् शक्रः, पुरं पुरनामानमसुर दैत्यं दारयतीति पुरन्दरः, शच्याः पतिः शचीपतिः। एवं यावन्तो जगति नामपर्याया जीवाजीवाश्रिताः सन्ति ते सर्वेऽपि व्युत्पत्त्या भिन्नाभिधेयाः। तेषु एकार्थता मन्यते तदातिप्रसङ्गदोषः। यतः विजातीयेषु शब्देषु एकार्थप्रसञ्जनमतिप्रङ्गः दोषः। परस्परभिन्नार्थानामेकत्रावस्थानं सङ्करदोषः। इति समभिरूढनयः। अथैवम्भूतनयः। व्युत्पत्तितुल्यार्थं नाम वक्तीति एवम्भूतनयः यथा मन्यते दुरितोपशान्त्यै जनैरिति मङ्गलं तीर्थं करोतीति तीर्थङ्करः वेवेष्टि विश्वमिति विष्णुः, शक्नोतीति शक्रः. वज्रं यस्यास्तीति स एव वज्री नान्यः, सहस्रमक्षीणि यस्य स एव सहस्राक्षो नान्यः। इत्यादि इति एवम्भूतनयः। इति सप्तनयाः। एतेषां सप्तनयानां मध्ये आद्याश्चत्वारो नया अर्थप्रधानत्वादर्थनयाः अग्रेतनास्त्रयो नयाः शब्दस्य प्रधानत्वात् शब्दनयाः। आद्यास्त्रयो द्रव्यास्तिकानयाः न तु पर्यायान्मन्यन्ते। शेषाश्चत्वारः पर्यायास्तिकानयाः पर्यायान्मन्यन्ते न तु द्रव्यम्। एतेषां सप्तानां नयानां मध्ये एकम् एव नयं मन्यते स दर्नयवादी। सर्वान् नयान मन्यते स सुनयवादी सप्तनयपञ्चसमवायान् मन्यते स स्याद्वादमतिः। एकान्तवादी न जिनमतिः। बौद्ध-नैयायिक-साङ्ख्य-मीमांसकचार्वाकाः पञ्चैते एकान्तवादिनः। बौद्धाः क्षणिकवादिनः१ नैयायिकाः कर्तृवादिनः२ साङ्ख्याः प्रकृतिवादिनः३ मीमांसकाः कर्मवादिनः४ चार्वाका नास्तिकवादिनः। एषां भेदा भूयांसः सन्ति। अथ सप्तनयान् प्रस्थक-वसति-प्रदेशादिदृष्टान्तत्रयेण कथयति। तत्र प्रस्थकदृष्टान्ते सप्तनयान् विवृणोति। प्रस्थको मानविशेष: मगधदेशप्रसिद्धः। कश्चित्सूत्रधारः प्रस्थककाष्टं छेत्तुं याति। केनापि पृष्टम्-क्व यासि? तदाशुद्धनैगमनयो भूत्वा तेनोक्वम्-प्रस्थकं छेत्तुं यामि। अत्र बहवो गमाः भासन्ति(न्ते) तावत्काष्टमपि न छेदितमस्ति तर्हि क्व प्रस्थकः स्यादन्तराले भूयांसो व्यवसाया भविष्यन्ति तदनु प्रस्थको भविष्यति तथापि कारणे कार्योपचारः स्यादेव। काष्टं प्रस्थः कार्यं भाविनि भूतोपचार इति नैगमनयवचनम्। सूत्रधारे काष्टं छेत्तुं प्रच्छन्ने(स्थिते) सति केनापि पृष्टम्—किं करोषि? प्रस्थं छिनद्मि। पूर्वनैगमवचनापेक्षया किञ्चिदिदं शुद्धं व्यास्याघटित्वा काष्टं प्रस्थाकारं कृतं तदा केन पृष्टम्-किं करोषि? प्रस्थं करोमि। पूर्वोक्तवचनादिदं शुद्धं तत्प्रस्थकाष्ठं विधिनोत्कीर्यमाणः सूत्रधारः केनापि पृष्टः—किं करोषि? तेनोक्तं प्रस्थं करोमि पूर्वोक्तनैगमवचनादिदं वचनं शुद्धम्। पूर्ववचनाद् उत्तरोत्तरवचनं शुद्धम्। यावत्प्रस्थको न भवति तावत्सर्वाण्यपि वचनानि नैगमनयस्य ज्ञातव्यानि। व्यवहारनयनैगमनययोः साम्यं वचनैरिति। अथ सङ्ग्रहनयवचनम्। यथा स प्रस्थकः परिपूर्णनिष्पन्नः कण्ठपर्यन्तः धान्यभृतो धान्यादिभाजनं करोति तदा
SR No.007790
Book TitleNayamrutam Part 02
Original Sutra AuthorN/A
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages202
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy