SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ संस्कृत कृति (४) स्यादवक्तव्यं क्रमतः सामान्यकल्पनया (५) स्यादवक्तव्यं क्रमतो विशेषकल्पनया (६) स्यादवक्तव्यं युगपत्सामान्यविशेषकल्पनया (७) इति। वस्तुनि कथञ्चित्प्रकारेण सामान्यद्रव्यधर्मत्वमस्तीति प्रथमभङ्गार्थः। (१) तथा तस्मिन्नेव वस्तुनि कथञ्चित्प्रकारेण विशेषधर्मः पर्यायोऽपि स्यादिति द्वितीयः।(२) तथा तस्मिन्नेव वस्तुनि समकाले सामान्यविशेषावपि स्यातामिति तृतीयः। (३) वस्तुनि अव्यक्तधर्मत्वं परमाणुरूपमस्तीति चतुर्थः।(४) तथानुक्रमेणैकदा सामान्यकल्पनया वस्तुस्वरूपं कथयितुमशक्यमतोऽवक्तव्यमिति पञ्चमः।(५) तथानुक्रमेणैकया विशेषकल्पनया वस्तुस्वरूपं कथयितुमशक्यत्वादवक्तव्यमिति षष्ठः। (६) तथा वस्तु युगपत्समकालं सामान्यविशेषत्वेन कथयितुमशक्यत्वादवक्तव्यमिति सप्तमः।(७) इति नैगमनयः। अथ सङ्ग्रहनयः। सकलभुवनत्रयमध्यवर्तिकालत्रयभाविवस्तुकदम्बकस्य कथकः सङ्ग्रहः। तत्र दृष्टान्तो यथा घटोऽनैकैर्नीलपीतादिभिर्वर्णैर्यतो व्यक्तिमानस्ति तथापि सामान्यद्रव्येण स घट एव उच्यते। तथा श्वेतपीतरक्तकृष्ण-- दिवर्णवती व्यक्तियुक्तापि गौः सास्नादिगोधर्मत्वेन सा गौरेवोच्यते । तथा जातिगोत्रवर्णगन्धरसस्पर्शसंहननसंस्थानावगाहनादिभेदभिन्ना अपि मनुष्यामनुष्यत्वधर्मेण सर्वे मनुष्याः। तथा घटघटीशरावाद्यनेकपर्याया सन्ति परं मृद्र्व्य-मेकमेव। एवं सर्वत्र विचार्यं वस्तुतो यदविनाशिधर्मः द्रव्यं तत्सामान्यद्रव्यमनु पर्यायः पर्यायः समये समये विनश्यति। अत्र विशेषवादिभिर्बोद्धचार्वाकादिभिः सामान्यं नाङ्गीक्रियते। तैः शाश्वतं किमपि न मन्यते सर्वं क्षणविनश्वरम्। सामान्याद्भिन्नो विशेषोऽभिन्नो वा? चेत्सामान्याद्भिन्नो विशेषस्तदा विशेषोऽवस्तुस्वभावो भविष्यति खरविषाणवत् वन्ध्यापुत्रवत्। सामान्य वस्तु स्थिरस्वभावम्, सामान्याश्रितो विशेषः सर्ववस्तुपर्यायग्राहकः सङ्ग्रहः। इति सङ्ग्रहनयः। __ अथ व्यवहारनयः येन सकललोकस्य प्रवृत्तिनिवृत्तिर्वा जायते स व्यवहारः। व्यवहारः वस्तुपर्यायविशेषरूपो न तु सामान्यधर्मः। यथा जलार्थी पुमान् घटादिगवेषणं करोति, न तु मृद्रव्यस्य यतो व्यवहारे विशेषः एवोपकारी न तु सामान्यम्। वस्तु विशेष]धर्म एव व्यवहारसाधकः यतो विशेषं विना सामान्यं न भवति। निर्विशेषं हि सामान्य शशविषाणवत्। विशेषं विना सामान्यं शशविषाणतुल्यमसदुक्तं तत्कथं कार्यसाधकं स्यात्? मरुमरीचिकावत् असद्रूपत्वात्। व्यवहारनये विशेषपदाथैर्घटपटमुकुटलकुटादिभिः प्रयोजनम्। इति व्यवहारनयः। अथ ऋजुसूत्रनयः ऋजुत्वेन सरलत्वेन सामान्येन वस्तुपदार्थप्ररूपकः ऋजुनयः। ऋजु वर्तमानकालीनाः पर्यायावर्तमानसमयानुकूलाः पर्यायाः स्वकीया न परकीयास्तान् कथयति ऋजुसूत्रार्थः। तथा ऋजुसूत्रनयः लिङ्गवचनाद्यभेदेन समस्तवस्तु कथयति। अत ऋजुसूत्रनयो लिङ्गवचनभेदं न मन्यते। तथा निक्षेपचतुष्टयं मन्यते नाम(१) स्थापना(२) द्रव्य(३) भावरूपम् (४)। ऋजुसूत्रो वर्तमानसमयग्राही न तु योग्यायोग्यशब्दग्राही इति ऋजुसूत्रनयः। (शब्दः) अथ शब्दनयः भाषावर्गणापुद्गलरूपः शब्दनयः। तेन शब्देन कृत्वा पदार्थस्य वाच्यवाचकभावसंयुक्तं क्रियते।
SR No.007790
Book TitleNayamrutam Part 02
Original Sutra AuthorN/A
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages202
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy