________________
१२
(१.२) श्रीमतिचन्द्रजीकृतम्
॥सप्तनयविवरणम् ॥
नयामृतम् - २
अथ नयस्वरूपम्।
स्यात्कारमुद्रिता भावा नित्यानित्यस्वभावकाः। प्रोक्ता येन प्रबोधाय वन्दे तं वृषभं जिनम्।।
अनन्तधर्मात्मकस्य वस्तुन एकांशव्यवसायात्मकं प्रकाशात्मकं ज्ञानं नयः । श्रीसर्वज्ञमते सकलं वस्तु अनन्तधर्मात्मकं वर्णितमस्ति मयूराण्डवत् । यथा मयूराण्डमध्ये नानावर्णत्वमस्ति तदा मयूरे जाते तत्पक्षादौ नानावर्णत्वं भवति। असत्किमपि नोत्पद्यते आकाशकुसुमवत् । सदेव प्रादुर्भवति यथा मृत्पिण्डे घटघटीशराव ओदञ्चनादीनां सत्तास्ति तदा मृत्पिण्डे ते ते घटादिपर्याया उत्पद्यन्ते चेत्सत्यं अनन्तधर्मत्वं वस्तुन्यस्ति तर्हि वस्तु एकधर्मत्वेन कथमुच्यते? सत्यम्, अनन्तधर्मत्वं (स्य) वस्तुनि सत्तास्ति परम् एकस्मिन् काले वस्तुनः परिणामाः सङ्ख्येया असङ्ख्या वा भवन्ति । तथा यस्मिन् काले यः परिणामोऽस्ति तस्मिन् काले स एव भवति नापरः । यद्द्द्रव्यं यदा येन रूपेण परिणतं तदा तेनैव रूपेण परिणमति, न तु रूपान्तरेणेति वचनात्। यथार्थप्रमाणमित्युच्यते अयथार्थप्रमाणमिति। नयः प्रमाणस्यैकांशः । यतः—
नाप्रमाणं प्रमाणं वा प्रमाणांशस्तथैव हि। नासमुद्रः समुद्रो वा सामुद्रांशो यथैव हि ॥ समस्तांशस्थानं प्रमाणं तदेकांशो नयः । प्रमाणनयैः सकलभावावगमो भवति। नयाः सप्त । णेगमसंगहववहारे उज्जुसुए होइ चेव बोधव्वे । सद्दे य समभिरूढे एवंभूते य मूलनया॥
अथ नैगमनयार्थः । समस्तसामान्येन विशेषेण च मन्यते न केवलं सामान्येन न केवलं विशेषेण उभाभ्यां प्रकाराभ्यां मन्यते नैगमः। सकलभुवनत्रयमध्यवर्तिवस्तुकदम्बकस्य ग्राहकः स सामान्यधर्मः एक एव। शैवन्याय शास्त्रेऽप्युक्तमस्ति—नित्यमेकमनेकानुवर्ति सामान्यम्। तद्यथा — घटत्व-पटत्व-मनुष्यत्वादि। तथा जैनन्यायशास्त्रेऽपि सामान्यलक्षणम्—अप्रच्युतानुत्पन्नस्थिरैकरूपं हि सामान्यम्, द्रव्यं शाश्वतिकम्। यथा मृत्तिकापर्याया घटशरावादयः उत्पादविनाशधर्मास्तैः कृत्वा सामान्यद्रव्यमस्थिरमप्यस्ति अनेकरूपतां भजति।
अथ विशेषलक्षणं शैवनये सामान्यव्यावृत्तिधर्माणो हि विशेषाः । जैननयेऽपि विशेषलक्षणं पूर्वपूर्वाकारपरि-त्यागोत्तरपरिस्फूर्तिमन्तो हि विशेषाः पर्यायापरनामानः। ते घट-पट-मुकुट-लकुटादि तथा नर-नारकसुरादि। इत्यादिसामान्यविशेषवस्तुस्वरूपप्ररूपको नैगमनयः। जैना अपि वस्तुनि धर्मद्वयं मन्यन्ते सामान्यं विशेषश्च। सामान्यं विना विशेषो न स्याद्विशेषं विना सामान्यं न स्यात्। निर्विशेषं हि सामान्यं {न} भवेत् शशविषाणवदिति वचनात्।
सामान्यविशेषसप्तभङ्गी वस्तु स्यात्सामान्यम् (१) स्याद्विशेषम् (२) स्यात्सामान्यविशेषम् (३) स्यादवक्तव्यम्