________________
संस्कृत कृति
[मूल] इत्थं नयार्थकवचःकुसुमैर्जिनेन्दुर्वीरोऽर्चितः सविनयं विनयाभिधेन। श्रीद्वीपबन्दरवरे विजयादिदेवसूरीशितुर्विजयसिंहगुरोश्च तुष्ट्यै॥२३॥
॥इति श्रीनयकर्णिका समाप्ता॥ टीका] इत्थं = पूर्वोक्तप्रकारेण नयानामर्थो नयार्थः सोऽस्ति येषां तानि नयार्थकानि, नयार्थकानि च तानि
वचांसि चेति। तान्येव कुसुमानि = पुष्पवृन्दं तैर्नयार्थकवचःकुसुमैः। जिनश्चासौ इन्दुश्च जिनेन्दुः = जिनचन्द्रो वीरो = वर्धमानस्वामी विनयेन सहितो यथा स्यात्तथा सविनयं भूत्वा विनयाभिधेन = विनयविजयेति नामकेन मया अर्चितः = पूजितः कुत्र? कस्मै ?श्रिया युक्ते द्वीपाख्यबन्दरवरे = जलधितटवर्तिनगरश्रेष्ठे यस्य नाम्नि विजयपदमादौ वर्तते स तथा विजयदेवसूरिस्तस्य सूरीशितुः शिष्यो विजयसिंहो यो मद्गुरुस्तस्य तुष्ट्यै = सन्तुष्टिकरणाय वीरविभुः पूजित इत्यर्थः॥२३॥
वृद्धिविजयशिष्येण गम्भीरविजयेन च। टीका कृतेयं कृतिभिर्वाच्यमानास्तु शङ्करी॥ [टबार्थ हवे नयवाद साथे स्तुतिनी पूर्णता तथा ग्रंथ रचq थयुं ते कारण प्रमुख दर्शावे छ। [शब्दार्थ] ए प्रकारे नयना अर्थयुक्त वचनरूप पुष्पोये करी जिनमां चंद्ररूप एवा वीर भगवान् अर्ध्या पूज्या
नम्रताये सहित एवा विनय छे नाम जेनुं एवा यो विनय विजये श्री दिवबंदरनामे श्रेष्ठ नगरमां एवामां विजय छे आदिमां देवसूरिराजना एवा विजयदेवसूरिराजना विजयसिंहगुरुना तथा प्रसन्नताने अर्थे।॥२३॥
एम नयकर्णिका संपूर्ण थे। भावार्थ:- श्री दिवबिंदरमा विजयदेवसूरि तथा विजयसिंहसूरि गुरुनी प्रसन्नताने अर्थे विनयविजये नम्रता साथे नयवादना वचनरूप पुष्पोये करि जिनमां चंद्ररूप एवा वीर भगवानने अर्ध्या (पूज्या) छे॥२४॥
इति नयकर्णिकाटबार्थः सम्पूर्णः।
१.श्रीमोहनलाल जैन लायब्रेरी प्रतक्रमांक ८८० की लेखनप्रशस्ति ||श्री।। लीखापितं हर्षमुनिजी।। अमदावादमध्ये||श्री।।