SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ नयामृतम्-२ आकाशास्तिकायः (३) जीवास्तिकायः (४) पुद्गलास्तिकायः (५) देशः (६)। सकलद्रव्यस्य कल्पनया विवक्षितः कियान् अंशो भागो देश उच्यते। एतेषां पूर्वोक्तानां षण्णां प्रदेशः इत्यव्यक्तं नैगमनयवचनम्। ___अथ सङ्ग्रहो वक्ति अरे! नैगम! मैवं वद। षण्णां प्रदेशो न, किं तु पञ्चानां धर्मास्तिकायादीनां प्रदेशोऽस्ति, न तु देशस्य प्रदेशः। द्रव्यस्यैकांशो देशो न तु द्रव्याद्भिन्नो देशः इति। अथ व्यवहारनयो ब्रूते—अरे! सङ्ग्रह! मेत्थं ब्रूहि। पञ्चानां तदोच्यते यदा पञ्चानां साधारणो भवेत् पञ्चभ्रातृनिधानवत्। इत्थं वद। पञ्चविधः प्रदेशः, धर्मास्तिकायादीनां पञ्चविधत्वाद् इति।। अथ ऋजुसूत्रनयो वक्ति–अरे! व्यवहार! मैवं भण यत्पञ्चविधः प्रदेशः। प्रदेशस्तु पञ्चास्तिकायविषयेऽस्ति प्रदेशे प्रदेशे यदि पञ्चविधत्वमुच्यते तदा पञ्चविंशति प्रदेशाः स्युः। अतो भाज्यप्रदेशान् वद एकस्मिन्प्रदेशे पञ्च विकल्पाः सन्ति अयं धर्मास्तिकायप्रदेशः (१) किं वा अधर्मास्तिकायप्रदेशः (२) किं वा आकाशास्तिकायप्रदेशः (३) उत जीवास्तिकायप्रदेशः (४) किं वा पुद्गलास्तिकायप्रदेशः (५)। एवं पञ्चविकल्पान् ऋजुसूत्रनयो वक्ति। अथ शब्दनयो वक्ति हे! ऋजुनय! त्वं भाज्यप्रदेशं मा वद। एवमुच्यमाने एकस्मिन्प्रदेशे पञ्चानामपि धर्मास्तिकायादीनां भजना भविष्यति पञ्चपुरुषसेवकवत्। कदाचिद्धर्मास्तिकायस्य प्रदेशो भविष्यति कदाचिदधर्मास्तिकायस्य प्रदेशो भविष्यति। एवं पञ्चानामपि भजना स्यात् प्रदेशस्यात एवं वद धर्मप्रदेशः (१) अधर्मप्रदेशः (२) आकाशप्रदेशः (३) जीवप्रदेशः (४) पुद्गलप्रदेशः (५) एतेषां पञ्चानां मध्ये एकतमस्य प्रदेशः इति। अथ समभिरूढनयो वक्ति धर्मप्रदेश इत्येवमुच्यमाने समासद्वयाभिव्याप्तिर्भवति। तत्पुरुषः कर्मधारयश्च। तत्पुरुषे क्रियमाणे धर्मे प्रदेशो धर्मप्रदेशः धर्मप्रदेशयोरैक्यम्। धर्मात्प्रदेशो भिन्नः प्रदेशाद्धर्मो भिन्नः भेदे तत्पुरुष इति वचनात्। अतोऽत्र कर्मधारयसमासः कार्यः। धर्मश्चासौ प्रदेशश्च धर्मप्रदेशः। अस्मिन् समासे धर्मद्रव्यप्रदेशयोरैक्यम्, न भिन्नत्वम्, अभेदे कर्मधारय इति वचनात् इति। ___ अथैवम्भूतनयो वक्ति– हे! समभिरूढनय! त्वं धर्मास्तिकायादिषु देशप्रदेशौ कल्पनया मन्यसे तदयुक्तम्, यतो देशप्रदेशौ धर्मास्तिकायादिस्कन्धादभिन्नौ। देशप्रदेशस्कन्धानामैक्यमेव, कल्पनया भिन्नत्वमस्ति तर्हि कल्पनया किं प्रयोजनम्? समस्तस्कन्धरूपो धर्मास्तिकायः स एव धर्मास्तिकाय उच्यते, न तु देशप्रदेशौ। एवं सर्वत्र धर्मास्तिकायादिषु ज्ञेयम्। इत्येवम्भूतनयवचनम्। इति प्रदेशदृष्टान्तः। सप्तनयज्ञो जिनोक्तसिद्धान्ताधिकारी नान्यः। नयानां किल सप्तानामर्था दृष्टान्तपूर्वकाः। लिखिता संस्कृतरूपेण स्वात्मनः परहेतवे।।' एते सप्तनया मिथ्यादृष्टिभिर्न मन्यन्ते। इति श्रीसप्तनयविवरणं सम्पूर्णम् ॥ १. लिखिता मतिचन्द्रेण परोपकृतिहेतवे।। इति गुर्जरकृतेरन्ते। २. प्रतिलेखकप्रशस्तिः-संवत् १९५४ मिती आसोज सुदि २ वार मंगलवारा। लिखितं व्यासरताणी राधाकृष्णमंगुमल्लेन।। श्रीरस्तु।। कल्याणमस्तु।।
SR No.007790
Book TitleNayamrutam Part 02
Original Sutra AuthorN/A
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages202
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy