Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 20
________________ 25 ॐ Jain Education International श्रीधर्माष्टकम् श्रीविजयनेमिसूरिसत्कः प्रवर्तक श्रीमुनियशोविजयः (छन्दः स्रग्धरा) धर्मात् सगोत्रजन्मा भवति नु भविकः क्षेमकारी जनानां धर्माद्धान्यैश्च शर्मावह इह भवति प्राणभूद् विश्वविश्वे । धर्माद् ध्यानैः सुकर्माग्रग इह गदितो गुण्यपुण्याग्रणीश्च धर्माद धन्यः सुवर्मावह इह भवति त्राणशक्तो नराणाम् l धर्माद् बाल्येऽपि लाल्यो भवति तु सततं पालनीयो जनानां धर्माद् दावेऽपि विष्टो भवति धृतिगतो भ्रान्तिभित् कान्तिधारी । धर्मात् पुण्योऽपि गुण्यो नमति च सततं पादपद्मं परत्र धर्माद्दीनोऽपि लीनो भवति तु भुवने स्वर्गसौख्ये सदैव ११ For Private & Personal Use Only રો धर्माद् दुःखेऽपि लीनो भवति तु सततं शर्मसीमावलीनो दीनो मीनोऽपि धीनो धरति हि धृतितः सर्वसम्पत्तिपत्तिम् । धर्माद् ध्यानेऽपि गाने भवति च सततं धीधनो धैर्यधारी धर्माज्ज्ञानेऽपि ताने इह हि वितनुते बुद्धिवृद्धिं विविद्वान् ॥३॥ धर्माद् दुःखस्य धारा भवति न हि पुनर्दुःखकारा नराणां धर्माद् दारा न कारागृहमिव भविनामत्र विश्वेऽपि विश्वे । धर्माद् धीशस्य धीरस्य च न हि भवति व्याघ्रवर्गोऽपि भीकृत् धर्मात् स्फारा च सारा सततमिह सतां सर्वसम्पत्तिसत्तिः ॥४॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120