Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 82
________________ कथा ९५१ यशोलिप्सा -अभिराजराजेन्द्रमिश्रः पत्नी कतिपयवर्षभ्यो रुग्णाऽऽसीत् । वस्तुतो जन्मतः प्रभृत्येव साऽनेकरोगग्रस्ता समदृश्यत । समागत एव ग्रीष्मकाले शरीरं तस्याः लघुपिण्डकैर्निचितं भवति स्म। कासरोगोऽपि तस्या नियतसहचरः पर्यलक्ष्यत । दन्तव्याधिः कादाचित्कश्चोदरशूलरोगस्तां नितरां शातयन्तावास्ताम् । परन्तु समतिक्रान्त एव शैशवे रोगा इमेऽपचयं जग्मुः । समुपारूढे यौवने सा स्वयमपि शरीररक्षापरा सञ्जाता । निरन्तरं दन्तपङ्क्तिधावनेन कर्पूरलवङ्गादिचर्वणेन च दन्तव्याधिरश्शान्तः । स्फोटकपिण्डकादिपरम्पराऽपि नित्यस्नानादिभिर्विच्छिन्ना जाताः । तावदेव परिणयसूत्रनिबद्धा सती सा गृहिणी सञ्जाता। सौभाग्यवशात्पतिस्तस्या लेखाकारकार्यालयेऽधीक्षकपदं बिभर्ति स्म । स्वभावादेव परमशान्ता विनयवती पतिपरायणा च सा पत्युर्हृदयं स्वगुणैर्जिगाय । सम्प्रति सा पुत्रत्रयं पुत्रीञ्चैकां प्रसूय सौभाग्यकाष्ठामधिरूढाऽऽसीत् । तस्या गृहे जीवने च सर्वतोभद्रं पर्यलक्ष्यत । परन्तु 'अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्' इति यदुक्तं श्रीमद्भगवद्गीतायां तत्तस्या जीवने चरितार्थतामभजत् । उदरशूलव्याधिः पुनर्नवतां भेजे । प्रारम्भे तु पथ्यादिभिः औषधोपचारैश्च क्षणिकं सौख्यं जायते स्म । परन्तु विगतत्रयमासेभ्यो व्याधिरयं स्फारतामुपगतः । औषधानां प्रभावो निरर्थकः सञ्जातः । एतन्निभालय पतिस्तस्या नगरस्य ख्याततमभिषजं मन्त्रितवान् । सोऽपि दुस्सहोदरशूलकारणान्यन्वेष्टुं बहुविधां परीक्षां कृतवान् । अन्ते चाऽसौ निश्चितवान् यत् पित्ताशये पाषाणशकलानां निर्मित्यैव दुस्सहपीडेयं समुत्तिष्ठति । अथ च शल्यक्रियामपहाय नाऽन्यः कोऽपि प्रशस्तोपायो रोगापनोदनस्य । | भिषक्सम्मतिं ज्ञात्वा पतिः शल्यक्रियायै स्वानुमतिं प्रददे । नाऽऽसीत्काचित्समस्या । Jain Education International ७३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120