Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सूचिक: गृहाण मातः ! परिधीयतां तव पुत्रकेण अर्धोरुकम् ।
वृद्धा
सूचिक:
राजा
वृद्धाः
राजा
Jain Education International
( चकिता असंतुष्टिं सूचयन्ती) किमेवमकरो: महाशय ! ? एतावल्लघुपरिमाणमर्धोरुकं स्यूतवानसि ? कथं स एतत् लघुपरिमाणर्धोरुकं परिदधेत् ? किमेवमागृह्णासि मात: ? पुत्रकाय अतिचपलाय सदाक्रीडारताय अर्धोरुकं सीव्यतामिति खलु त्वं मामदिष्टवती ? तदनगुणं मया स्यूतं, को वा मे ऽपराधोऽत्र ?
(वृद्धा - सूचिकयो: संव्यवहारमुपश्रुत्य ) अहो गृहिणः पुत्रव्यामोहः । सोऽयमशीति-वर्षवयस्को जरठोऽपि तस्या मुग्धवृद्धमातुः कृते 'पुत्रक' एव तिष्ठति ।
यथा भवतोऽपि भार्यामोह: । विवेक्यपि भवान् मृतशरीरं स्कन्धेऽवरुह्याऽयट्यसे । (राजा तस्या वचः श्रुत्वा ततो मन्दं मन्दं प्रयाति ।)
सप्तमं दृश्यम्
(अत्रान्तरे समीपस्थाद् देवमन्दिरात् कस्यचित् हतभाग्यस्येव आर्तनादः श्रूयते। शृण्वन्नेव समुत्थाय तद्देशमुपगम्य मन्दिरं प्रविश्य तत्र हस्ताभ्यां उरसि शिरसि ताडयन्तं नष्टसर्वस्यैव तारं विलपन्तं साधुवर्यं पश्यति । स एवाऽयं यः पूर्वं महिष्योः पातिव्रत्यनिरूपणावसरे 'विषं' निपीतवान् । इदानी तुं किञ्चदिव प्रवृद्धश्मश्रूः । स एवाऽयमिति प्रत्यभिज्ञातुमशक्यः।)
(स्वगतं) कश्चिद् वराको हतभाग्य इव परिलक्ष्यते । तदस्य दारुणं दुःसहं संकष्टं किं संजातमिति पृच्छामि। (स्कन्धात् भार्याकलेवरमवारोप्य तं कलेवरं वृक्षच्छायायां विनिवेश्य साधुमुपसर्पति ।) भो: साधुवर्य ! किमापन्नं तव ? वयं गृहिणस्तावच्चिन्तापरिमेयैः बन्धुजनवियोगेन अर्थहान्या च बहु क्लिश्यामः । भार्या - पुत्र - वित्ता- कुटुम्बनिर्वहणभार - पीडिताः सन्तः दुःख्यामः ।
८४
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120