Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
साधुः
राजा
Jain Education International
अहो ! साधुवर्येण यदुक्तं ' भग्नं भाण्डं पूर्णं संपादयितुं कुतो न शक्ष्यते' इति तेन तस्य वचसा संभ्रान्तोऽस्मि । तमेव महात्मानं पृच्छामि तस्य वचः अन्तरार्थं विवरीतुम् । (समुत्थाय साधुमुपसर्पति) भोः स्वामिन् ! 'यदि काष्ठलोष्ठप्रायं मृतकलेवरं पुनरुज्जीवयितुं पार्यते कुतो न भग्नभाण्डं पुनः पूर्णं संपादयितुं शक्ष्यते ' इति यदुक्तं भवता तस्य वो वचसोऽन्तरार्थं नाऽवगच्छामि, तन्मे सदयं विशदयतु भवानिति विनतः संप्रार्थये ।
पश्य भोः ! परमात्मा प्रभुः सृष्टिकर्ता सुनिपुणः कुम्भकारः । सर्वे वयं तस्य हस्ते आर्द्रमृत्तिकारूपेण गृहीताः स्मः । यावत्पर्यन्तं मृत्तिकायामार्द्रताऽस्ति तावत्पर्यन्तं तस्या मृत्तिकाया: कुभ्भकारेण कुलालचकमारोहयित्वा दण्डेन मर्दयित्वा उपर्यधः परिवर्तनात् भाण्डशरावादिविभिन्नाकृतीनां धारणाद् विमोक्षो नास्ति । एवमेव आर्द्रमृत्तिकायास्तस्या भूमौ निपत्य, धावतां जनानां पशूनां च पदसंघट्टनेन भञ्जनाद् विमोक्षो नैव । यथेदं तथैव अस्मासु जीविषु देहधारिषु यावदविचारकृता शरीरात्मबुद्धिकृता अहंकारममकाररूपा आर्द्रता वरीवर्ति तावदस्माकं ईश्वरेण प्रभुणा सृष्टिकर्त्रा व्याघ्र वृक- सूकर-कुक्कुर - कीटपतङ्गादि-विभिन्ननानायोनिषु जननमरणप्रबन्धचक्रमधिरुह्य उपर्यधः चङ्क्रमणात् मोक्षो नैव । किंतु आत्मविचारेण विवेकेन यदैव नरो विगतदेहात्मबुद्धिर्वीतमोहः सञ्जायते तत ऊर्ध्वं तस्य जननमरणरूपं संकष्टं नास्ति । अमृतात्मज्ञानेन विदेहात्मनिष्ठया विना पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे मलमूत्रकोशागारे शयनादालोडनान्मोक्षो नैव च नैव च। अत आत्मोद्धाराय श्रेयस्कामिना नरेण अविलम्ब्य देहत्यागात्पूर्वमेव विगतदेहात्मबुद्धिभिर्वीतमोहैर्भाव्यम् ।
भवदनुगृहीतया ज्ञानसुधावृष्ट्या मोहज्वरदग्धो मे जीवनपादप इदानीं धृत्युत्साह
८६
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120