Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
साधुः
सर्वसङ्गपरित्यागिनां त्यक्तसर्वपरिग्रहाणां वीतमोहानां भवादृशां दुःखशोकौ संभवेतां वा कथमिति पृच्छामि भोः ! भो राजन् ! कथमहं वर्णयेयं ममैतां दारुणां दुःसहां वेदनां श्रीमन् ! ? ममैकं भाण्डभाजनं बहूपयोगि चिरं मया बहूपयुज्यते स्म । तदेकमेव भोजनभाजनं, जलभाण्डं, स्वपतो मे तल्पः, विरहोपशमनं कदाचित् परिरभ्यमाणं प्रियसुहृत्, जानासि मे जीवनाधारस्य नित्यानपायिनः सुहृत्सखस्य परेधुः किमापन्नमिति ? बुभुक्षरहं कुतश्चित् कृच्छ्राद् भिक्षितं भाण्डपूर्ण कुञ्जलं यावकाञ्जिकं उद्धृत्य पातुमुधुक्तः तत्काल एव कुतश्चिद् गृध्र एकः गगनादवतीर्य हस्तधृतं मे भाजनं प्रहृत्य पातयित्वा काञ्जिकं सर्वं भूमौ यत्र कुत्र वा विकीर्य निरगात् । प्रियसुहत्सखं मे भाण्डभाजनं भग्नं शकलीकृतं पश्यन् भग्नहृदयोऽहं तिष्ठामि । किं मे जीवितेन प्रियसुहृद्विरहिणा? नष्टसर्वस्य हतभाग्यस्य मम जिजीविषा तावन्नास्ति । जगत्सर्वं मे निःसारं सञ्जातम् । (रोदनं नाटयति ।) भो ! भो उन्मत्तवातूल ! नूनं तव दुःखवेदनं विचित्रं दृश्यते । आगच्छ, राजधान्यां कोशागारे शतशः सहस्रशो भाण्डभाजनानि प्रयच्छामि नष्टस्य तव भाण्डभाजनस्य स्थाने । एतन्निमितं एवं रोदनं विलपनं नूनं बालिशं खलु ? न, न । नाऽहमन्यं भाण्डं गृह्णामि । तदेव भाण्डं यद् गृध्रेण पातयित्वा शकलीकृतं तदेव भाण्डं वाञ्छामि, नाऽन्यं भाण्डं वरये । (म्लानमुखस्तिष्ठति ।) नूनमुन्मत्तोऽसि साधो ! भग्नं भाण्डं यथापूर्वं संयोज्य तदेव पूर्णमभग्नं संपादयितुं शक्यते वा सुनिपुणेनापि कुम्भकारेण? लोके प्रियबन्धुजनवियोगे रुदतो वयं पश्यामः न तु भग्नभाण्डभाजनस्य कृते । मृतकलेवरः काष्ठलोष्टसमः व्यसुः यदि पुनरुज्जीवयितुं पार्यते, कुतो मे भग्नं शकलीकृतं प्रियभाण्डं पुनः पूर्णं संपादयितुं न शक्ष्यत इति विलपामि श्रीमन् ! (समुत्थाय ततोऽपसृत्य वृक्षाधोनिवेशितं भार्याकलेवरं अङ्के निधाय चिन्तयति)
राजा
साधुः
राजा
साधुः
राजा
८५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120