Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
वृक्षादवमुच्यमानानि निपतन्त्येव । अतोऽत्र पूज्यपितुरवसान-वार्तामुपश्रुत्य अनुशोचनमसमञ्जसमेव खलु ? (राजकुमारं पितुर्निधनवार्तया निष्प्रभावितमनस्कं निराकुलितं वीक्ष्य साश्चर्यं ततो अपसृत्य अन्तर्गृहं निवसन्तं राज्ञः पितरं
विक्रममुपगम्य-) मन्त्री पूज्यस्वामिन् ! निवेदयितुमेव न प्रभवामि दारुणां दुःश्राव्यां वार्ताम् । ह्यः
संग्रामे तव प्रियपुत्रः अमितशौर्यण शत्रुभिर्युध्यमानोऽन्ते शत्रुभिः निहतः ।
वीरस्वर्गं च प्राप्तः श्रीमन् ! । विक्रमः भो महाशय ! वीरस्वर्गं प्राप्तो मोहजिदिति भवानेव वदति । कुतो वा तर्हि
त्यक्तशरीरनीडं अवमोचितदेहाभिमाननिगडं तं प्रति अनुशोचनम्? एतावत्पर्यन्तं सोऽयं मम पुत्रः, अहं च तस्य पितेति, पितापुत्रसंबन्धं परिकल्प्य वृथाभिमानेन सुपीडित आसम् । इतः प्रभृति ममाऽयं तस्याऽहमिति वृथाभिमानो विगलितः । सतदैव वीतमोहः सन् मोहजिदासीत् । अद्यप्रभृति अहमपि वीतमोहस्तिष्ठामि । अहमपि मोहजित् । ( सहर्ष केकायते ।) (मन्त्री राजसौधान्निर्गत्य राजवीथीं प्रविशति । मार्गे अवकरसंमार्जनरतं
पौरसंमाजर्कं परिलक्ष्य तं सान्त्वयन्निव।) मन्त्री भो भो ! अद्यप्रभृति सर्वे यूयं पुरजनाः अनाथाः निराश्रिताः सञ्जाताः । प्रभुर्वः
प्रजावत्सलो ह्यः संग्रामे शत्रुभिराक्रान्तो निर्दयं निहतः वीरस्वर्गं च प्राप। संर्माजकः स्वामिन् ! मन्त्रिवर्य ! किमिदं बालिशमुच्यते भवता? समस्तं प्राणिजातं
परिपोषयति जगदीश्वरे करुणावरुणालये नित्यस्थिते नूनं न कश्चिद् अनाथस्तिष्ठति । अहं तावत् बहोः कालात् प्रभृति अस्य नगरस्य प्रजानां मोहकामक्रोधलोभमत्सरभयदुःखशोकविषादरूपस्य अवकरस्य संमाजर्ने अविरतो रतः । तथापि ममैतस्य कर्मणोऽन्तं न पश्यामि। (एवमुक्त्वा अवकरसंमार्जनमनुवर्तयते । साश्चर्यं ततो निर्गच्छति मन्त्रिणि तस्य संमार्जकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120