Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 107
________________ (सङ्ग्रहालये) मार्गदर्शक: अयं कर्पर: ( SKULLखोपरी) महासाम्राज्यशालिनः नेपोलियन्-वर्यस्य अस्ति । मार्गदर्शक: (अस्खलितं) सत्यम् अयं कर्परः नेपोलियन्-वर्यस्य शैशवकालीनोऽस्ति !! आशुगः भो ! दीपावल्या अवकाशेऽहं दक्षिणभारतं पर्यटितुं विचारयामि । प्रायः कियान् व्ययो भवेत् ? मन्दगः विचारणे न कोऽपि व्ययः !! Jain Education International 30 मुनिकल्याणकीर्तिविजय: प्रवासी ( सर्वतो निरीक्ष्य) अयं तु कस्यचिद् बालस्य इव प्रतिभाति भोः ! अध्यापकः भो गमन ! "चौर: चौर्यं करोति" इति वाक्यस्य भविष्यत्काले किं रूपान्तरं भवेत् ? गमनः स कारागृहं गमिष्यति !!! ९८ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120