Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 96
________________ राजा साधुः राजा साधुः Jain Education International नवपल्लवैः समुल्लसति सद्गुरो ! । समुदिते ज्ञाने सवितरि व्यामोहनीहारपुञ्जो मच्चिदाकाशसंन्निविष्टो व्यपगतः । शोकमोहमहोदधौ निमग्नाय किंकर्तव्यविमूढाय संभ्रान्ताय व्याकुलितचित्ताय अर्जुनाय भगवान पार्थसारथिः उपदिशति खलु- ‘असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु' इति । लोके भार्यापुत्रवित्तादिषु नश्वरेषु आगमापायिषु सक्तमानसाः संयोगवियोगझञ्झावातेन इतस्ततो दन्द्रम्यमाणाः आशापाशशतैर्बद्धा: कुटुम्बव्यसनिनो भृशमवसीदन्ति, अहो दौर्भाग्यम् । अनेकजन्मकृतपुण्यपरिपाकफलमिदं मानुषं जन्म मोघीकृतं तैः यथा समृद्धवेगाः पतङ्गाः नाशाय ज्वलनं विशन्ति तथैव कामिनीकाञ्चनसमाकृष्टा संसारिण: अपावृतमृत्युमुखं प्रविशन्ति । धिङ् धिङ् मां मृतकलेवरे काष्टलोष्टसमे सक्तहृदयम् । (महिष्याः कलेवरं स्मशानभूमौ संत्यज्य राजधानीं प्रतिनिवर्तते ।) अष्टमं दृश्यम् (सिंहासनरूढोऽतीव खिन्नः स्वजीविते नितरां जुगुप्सितः) अहो मे सर्वस्वं गतम्। कुतो वा इत: परं, कस्य कृते, किमर्थमहं जीवेयम् ? मोहिनीविलासिन्यौ धूर्तनार्यौ कपटानुरागेण मह्यं दुद्रुहतुः । सुमत्यपि सुशीला या मयोपैक्षि साऽपि अस्तङ्गता । इतः परं किंप्रयोजनाय प्राणान् धारयेयम् ? अलमनेन दुःखभूयिष्ठेन अकिञ्चनेन सर्वथा मौल्यहीनेन निरर्थकेन जीवितेन । तृणप्रायं तुच्छमिदं मे जीवितमन्तंगमयिष्यामि । ( खड्गमुद्यच्छति राजनि काकतालीयेन तत्र साधुरुपतिष्ठति । राज्ञा प्रवृत्तं दुःसाहसं च निरुणद्धि ।) महाराज ! किमिदं साहसम् ? मोघमिदं मे जीवितं नितरां मौल्यहीनमकिञ्चनं तुच्छं तृणप्रायमन्तंगमयिष्यामि पूज्यपाद ! निरर्थक मे कलेवरं छिनद्मि भोः ! मर्षयतु तावद् राजन् ! अलं संभ्रान्त्या । सर्वथा मौल्यहीनमकिञ्चनं तुच्छं तृणप्रायं ते कलेवरं खलु विनाशयितुमीहते भवान् ? (कञ्चित् श्रीमन्तन्धं ८७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120