Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 98
________________ साधुः राजा साधुः राजा Jain Education International मर्षय तावद् राजन् ! सद्यः भवान् स्वं अग्नौ निपात्य भस्मीभूतं भावयतु । अवशिष्टं भस्म कस्य ? वदतु । निःसंशयं तद् भस्म ममैव । राजन् ! पश्यतु तावत् । दग्धे भस्मीभूतेऽपि शरीरे भस्मन्यपि ममेत्यभिमानं नैव निरस्तम् । शरीरे भस्मीकृते सर्वस्य संकष्टजातस्य अन्तो भविष्यतीति यदुक्तं भवता तन्मृषैव। सोऽयं शरीराभिमानः तदाश्रितौ अहंकारममकारौ भस्मीभूतेऽपि स्थूलदेहे नैव नश्यतः । सूक्ष्मशरीररूपेण लिङ्गशरीराभिधः सुप्तचित्ते वासनापुञ्जभावेन निविष्टः सन् जीवं वायुर्गन्धानिव पुष्पाशयात् स्थानान्तरं, वासनानुरूपकर्मफलभोगाय देहान्तरं प्रवेशयति । दग्धेऽपि शरीरे, तद् भस्मन्यपि ममेत्यभिमानं वहसि । अतो यत्नेन दहनीयं शरीरं न, किंतु शरीरे स्थूले सूक्ष्मे वा अहंममेति भ्रान्तबुद्धिर्दहनीया । अतः सद्यः देहात्मभ्रान्तिबुद्धिं हित्वा अजे, नित्यनिरस्तजननमरणादिविकारे, शाश्वते, अखंडचेतने, स्वस्वरूपे, प्रत्यगात्मनि, अमृतात्मनि निष्ठो भव । मृत्युंजया सैव सद्यो मुक्तिरिति सुष्ठु जानीहि । प्रारब्धकर्मफलतया यत्कर्म राज्यकोशादिनिर्वहणरूपं प्राप्तवानसि तत् श्रीकृष्णाजनकादय इव नाटके पात्रधारीव निर्लिप्तः सन् लीलया साक्षीरूपेण स्वस्य परस्य च रञ्जनाय हिताय च निर्वह । अपगत इदानीं मे व्यामोहः पूज्यपाद ! । अवबुद्धोऽस्मि । एतत्पर्यन्तं व्यामोह: दौर्बल्यं हताशिता च मामाचक्रमुः । नाऽहं तुच्छोऽकिञ्चनः दरिद्रः । अहं नित्यश्रीमान् नवकोटिनारायणः । जीवतः प्रतिपदं भयदुःखशोकादिना मरणात्, म्रियमाणस्य देहात्मबुद्धि विजहतः, जीवनमेव वरम् । भवदनुगृहीतेन बोधामृतेन अद्य मे जन्म सफलीकृतम् । अहमद्य मोहजित् संवृतोऽस्मि । अहमेव मोहजित् । अहमेव मोहजित् ! (हस्तावुद्धृत्य उद्घोषयति । एवं सोत्साहं उद्गिरति राजनि सुमत्याः प्रेतो राज्ञो दृष्टिपथमागच्छति । स च प्रेतो राजानं समाकारयति । 1 ८९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120