Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 84
________________ संस्कृतिः ? सन्तोषः आनन्दः शास्त्री सूरत "पश्यतु, पश्यतु ! कीदृशी संस्कृतिरभूदस्य भारतवर्षस्य ? अद्यत्वे तु रसातलमुपागता सा।", विनोदः साश्चर्यमवदत् । विनोदः, मम बाल्यकालमित्रमध्ययनसमाप्तेः पश्चादत्र चाकचिक्यचर्चितायां मुम्बईनगर्यामाजीविकार्थं समागतवान् । विले-पार्लेगन्तुकामावावां बान्द्रारेलविरामस्थाने प्रतीक्षारतौ स्थितवन्तावास्व स्थानिकरेलयानार्थम् । तदा संस्कृतिविषयकं गुरुगभ्मीरप्रश्नमुत्थापितवान सः।। "भोः ! तादृशं किमभवद् यदावयोर्लघुचर्चामध्ये ईदृशी गुर्वी चर्चा विना कारणेनैवाऽऽपतिता?" इति मया पृष्टे पुरो नाऽतिदूरावस्थिता लघुकायवस्त्रावेष्टिता पाश्चात्यपरिवेशधारणप्रसन्ना उन्मुक्ता नवयौवनैका सङ्केतिता। "अहो! इयं तावद् वर्तते भवदाश्चर्यविषया ! किन्तु क्षणं विचारयतु । इयं जीवनशैली, इयं वेशभूषा च दैनन्दिनधावनशीलायास्तीव्रगतिसम्पन्नाया अस्या अत्र व्यावसायिकनगर्यां महती आवश्यकता। यदि न रोचते भवते खलु तदा नैरपेक्ष्येण तिष्ठतु । किमनेन खेदेन ?" इति सनिःश्वासं मयोक्तम् । पश्चादावामन्यवार्तानिमग्नौ जातौ परन्तु मध्ये मध्ये स तामेव लुब्धनेत्राभ्यामवलोकितवान् । 'किमन्यचित्तको भवान् ? '' इत्युक्तवति मयि कुटिलं हसित्वा स उच्छ्वसितमिवाऽब्रवीत् "चित्तं ममाऽपहृतं तया बालया" इति । अनेनोत्तरेण विचारसागरनिमग्नोऽहमविचारयम्- "किं इयमेव परिभाषा संस्कृतेः? " eGo ७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120