Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
राजा
राजा
(भृशं क्रुद्धः) नैव । नाऽहं राज्यलिप्सुः । न मे राज्यकोशाधिकारलालसा । कामं यूयं पुरजनैः सह प्रतिनिवर्तध्वम् । (भीतभीतास्ते सर्वे ततो निष्कामन्ति । राजा समुत्थाय महिष्या: कलेवरं स्कन्धमधिरोप्य स्मशानदेशादपसर्पति । अनतिदूरे च कञ्चिद् व्रजमुसर्पति ।) ।
तृतीयं दृश्यम् । (कञ्चित् गोपं स्वगेहस्य द्वारि स्थित्वा स्वोत्सङ्गस्योपरि रिक्तहस्तं घृषन्तं रज्जुनिष्पादने रतमुपलक्ष्य ।) अरे ! कोऽसौ तव मोघोद्यम इति पृच्छामि । सर्वो लोके रज्जुनिष्पादनाय तन्तून् नारिकेलस्य कार्पासस्य अन्यस्य वा संगृह्णाति । त्वं तु रिक्तहस्तो रज्जु निष्पिपादयिषसि । अनेन कदाचित् रज्जुः निष्पाद्यते वा? नूनमविरतघर्षणेन एवं भृशं घृष्यमाणो निपीड्यमानस्तव उत्सङ्गोः रक्तः
सञ्जायते ननु ? न ततोऽधिकं किञ्चिदत्र तव सिद्धं पश्यामि। गोपः किमिदमुच्यते प्रभो ! ? यदि मृतकलेवर उह्यमानः पुनरज्जीवेत् तर्हि कुतो न
रिक्तहस्तेन उत्सङ्गघर्षणेन रज्जुनिष्पाद्येत? (स्वगतं) आमाम् । सत्यमुच्यते त्वया । (ततोऽपसर्पति)
चतुर्थं दृश्यम् । (स्कन्धाधिरूढभार्याकलेवरः अग्रे गच्छन् अनतिदूरे कञ्चित् तैलनिष्पादकं तैलनिष्पीडने रतं पश्यति । तं च तैलकारं तैलबीजं विनैव तैलयन्त्रं चालयन्तं परिलक्ष्य)
भो भोः ! किं तत्र त्वया निष्पीड्यते इति पृच्छामि। तैलकारः सिकता। सिकतां निष्पीड्य तैलं निष्पिपादयिषामि ।
राजा
राजा
८१ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120