Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 83
________________ भिषग्वर्यः स्वकर्मणि कुशलो लब्धयशाश्चाऽऽसीत् । सर्वाधुनिकसाधनोपपन्न आसीत्तस्य शल्यक्रियाकक्षः । शल्यक्रियातिथिरपि सुनिश्चितः । सर्वेऽपि कुटुम्बिनस्तस्याः सविधे समुपस्थिता आसन् । दारकाः प्रतिवेशिनो मातृगृहबान्धवाश्चापि प्रमुखास्तत्समीपे स्थिताः । तथापि सा केवलमेकमेव प्रियजनं विस्फारितनेत्राभ्यां प्रतीक्षमाणाऽऽसीत् । स आसीत्तस्या जीवनज्योतिर्भूतो दयितः। शल्यक्रियावेला समासन्ना जाता। सन्ध्याकाले चतुर्वादनक्षण एवाऽऽसीत्तस्याः पर्यायः । पतिस्तस्याः तावता कालेनाऽपि नाऽऽयातः । सम्प्रत्यसौ महालेखानियन्त्रक आसीत् । शल्यक्रियाकक्षप्रवेशात्प्रागेव कश्चित्सेवकस्तत्प्रेषितां चिटिकामेकामादाय समागतो यस्यां लिखितमासीत् -'प्रबन्धसमितेरधिवेशनं सम्प्रत्यपि प्रवर्तते । अतो नाऽऽगन्तुं पारये । अलं चिन्तया । शल्यक्रियां सपादय ।' तच्छुत्वैव सा मूर्छामुपगता। e- धीरैरैः समर्यादैः सत्त्वं रक्ष्यं विवेकि भिः । समापन्ने निजप्राणसंशये सुमहत्यपि ॥ १ ॥ सत्त्वमेकमिदं मा गात् सर्वमन्यद् भविष्यति । सति कन्दे न सन्देहो वल्ल्याः पल्लवसम्पदाम् ॥२॥ (श्रीमल्लिनाथमहाकाव्ये) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120