Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 61
________________ सत्कार्यमपि पापबन्धं कारयेत्, यतो जिनमतस्य कर्मपद्धतिः अतिसूक्ष्मा गहना चास्ति । एवं सर्वेभ्यो दर्शनेभ्यो भिन्नाऽपि कर्मपद्धतिः। एतत्कारणादेव जिनशासनस्य कर्मप्रणालिकामनुसृत्य चत्वारि तत्त्वान्यभ्यसनीयानि । १. जीवने स्वकृतस्य सत्कार्यस्य सदाऽनुमोदना कर्तव्या। २. जीवने न कदाचिदपि आत्मना कृतशुभकार्यस्य पश्चात्तापः कार्यः । ३. जीवने न कदाचिदपि कृताशुभकार्यस्याऽनुमोदना करणीया। ४. जीवने आचरितस्य दुष्टकार्यस्याऽवश्यमेव पश्चात्तापः कर्तव्यः । भ्रातः । न शक्यते कर्तुं जीवने सदा सत्कार्याणि । किन्तु यदा दैवात् शुभक्षणे सत्कार्यं भवेत् तदा तस्याऽनुमोदना करणीयैव । शुभकार्ये कृते सति मनसि शुभभावना भावनीया "धन्योऽस्मि अहं, मम प्रबलात् भाग्योदयात् अद्यैतादृशः सुन्दरोऽवसरः उपलब्धः, एवमेव सदा मया शुभकार्याणि कर्तव्यानी"ति । एवं पुनः पुनः सर्वदा कृतसुकृतस्याऽनुमोदना करणीया शुभभावेन, न तु मानेन। अत्रेदमपि विशेषेण ज्ञेयं यदनुमोदनाया: व्याजेनाऽहङ्कारो न चित्ते प्रविशेत्, यतो द्वयोर्मध्ये भेदो ज्ञातुं न शक्यते। अथ सत्कार्ये कृतसुकृतस्याऽनुमोदनायां चैतदेवाऽन्तरं यत्, सुकृतस्य प्रभावेन शुभपुण्यबन्धस्तु भवत्येव। किन्तु तस्याऽनुमोदनया यः पुण्यबन्धोऽभवत् तस्याऽनुबन्धो भवति । यथा यथाऽनुमोदनायाः प्रमाणमधिकं भवति तथा तथाऽनुबन्धोऽपि विशेषो भवति । ततो यावान् पुण्यबन्धोऽभूत् सत्कार्यकरणकाले, तत्तोऽधिकतरो बन्धोऽनुमोदनाद्वारेण भवति । अत एवाऽत्र जिनसमये नाऽतीव प्राधान्यं कार्यस्य किन्तु मनसोऽध्यवसायस्य प्राधान्यमस्ति। यतोऽनुमोदनासमये चित्तस्य परिणतिः वैशिष्टयेन निर्मला निर्मलतरा च भवति, तन्निर्मलपरिणतिवशात् पुण्यबन्धोऽपि विशेषो भवति । एवं यदि कार्यं लघु तथाऽपि फलं महद् भवति । अत एव कृतसत्कार्यस्याऽनुमोदनायां न कदाऽपि पश्चाद्वलनं करणीयम् । बन्धो ! शालिभद्रं स्मर! आसीत् पूर्वभवे शालिभद्रः 'संगमो' नाम आभीरपुत्रः । 'शाली' ग्रामे वसति स्म सः । अल्पवयस्येव पिता दिवङ्गतः । 'धन्या' नाम तस्य माताऽऽसीत् । सा प्रातिवेश्मिकानां ५२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120