Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 63
________________ ** तपःकृशीभूतकाय: सौम्यमुखारविन्दो धैर्यगाम्भीर्ययुतः प्रशान्त: एको मुनिवरो दृष्टः । शीघ्रमेव तेन तस्य मुनेः सादरमुचितं स्वागतं कृतम् । स जैनीं परिभाषामजानन्नपि आह भो ! भो ! पूज्य ! भवानेतत्परमान्नं गृह्णातु " । मुनिनाऽपि तदेषणीयं योग्यं ज्ञात्वा गृहीतम् । आत्मानं धन्यंमन्येन तेन बालकेनाऽपि सानन्दं स्थाल्यां स्थितं सर्वमपि परमान्नं मुनिवरायाऽदायि । ‘धर्मलाभः' इत्याशिषं दत्त्वा वसतिं गतवान् स मुनिपुङ्गवः । इतश्च “अद्य मया चारु सुकुतं कृतं, अतिथये दानं दत्तं, अद्य मे सफलं दिनं, धन्योऽस्मि अह" मिति अनुमोदनाध्यवसितमानसः स बालः सानन्दं स्थाल्यां लग्नं परमान्नं लिह्यति । तस्मिन्नेव कालेऽन्येषां गृहकार्यं पूर्णीकृत्याऽऽगच्छन्ती जननी स्थालीलग्नं पायसमास्वादमानं बालकमीक्षते । तस्य मुखेऽपूर्वमानन्दं निरीक्ष्य " बालकाय परमान्नमतीव रोचते" इति मत्वाऽवशिष्टं पायसमपि पुनः तस्मै दत्तम् । बालकेनाऽपि तं परमान्नं सहर्षं भुक्तम् । अत्राऽपि भोजनकाले बालकस्य चित्ते स मुनिवर एव रमते "मुनिवरोऽतीव सुन्दरः आसीत्, तस्य वागपि शर्करावन्मधुराऽऽसीत्, मयाऽद्य सुष्ठु सुकृतं कृतं" एवं पुनः पुनः अनुमोदनां करोति । अथाऽद्यपर्यन्तं तेन नैतादृशो गरिष्ठपदार्थो भक्षितः । ततः तेनाऽधिकाहारभोजनेन 'विसूचिका' नामरोगेण स ग्रस्तोऽभूत् । स तस्यामेव निशि तस्य रोगस्याऽधिकपीडावशात् शुभाध्यवसायेषु मृत: । ततो मृत्वा 'गोभद्र' श्रेष्ठिनो गृहे महर्द्धिको धनाड्यः पुत्ररूपेणाऽवातरत् स संगमः । एवं तेन बालकेनाऽल्पमेव दानं दत्तं, किन्तु कृतसुकृतस्य अभीक्ष्णमनुमोदनाद्वारेणैतादृशी परमर्द्धिः प्राप्ता । ततो भ्रातः ! सदा कृतसुकृतस्याऽनुमोदना करणीयैव । अथ किं भवेत् कृतसुकृतस्य पश्चात्तापकरणेन, तदपि ज्ञेयम् । कृतसुकृतस्य पश्चात्तापो दुःखस्यैव कारणं भवति । सत्कार्यकरणेन यः शुभबन्धो भवेत् स तु भवत्येव, किन्तु तत्पश्चात् कृतस्य सत्कार्यस्य पश्चात्तापात् बद्धशुभबन्धे हानि: भवति । सत्कार्यात् या ऋद्धिः प्राप्यते सा ऋद्धिः पश्चात्तापकरणेन दुर्गतेः प्रधानं कारणं भवति । जीवस्य शुभमपि चित्तं पापान्वितं मलिनं करोति । सदा तस्य चित्ते पापबुद्धिरेव निरन्तरं ५४ Jain Education International - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120