Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 75
________________ कथा एकदा, मार्गे कश्चन गच्छन्नासीत् । तेजस्वीनि तस्य नयने मुखं चाऽऽसन् । अज्ञात इव स प्रतिभाति स्म । रूपक-कथा किञ्चित् प्राप्तुमिव तस्य गतिर्वेगवती आसीत् । प्रसादयुक्तया च दृष्ट्या सतोषं स सर्वं निभालयति स्म । Jain Education International एवमेव गच्छन् एकमनेकजनसङ्कुलं नगरं स प्राप्तवान् । किन्तु जनास्तत्र स्व-स्वकार्येष्वेतावन्तो निमग्ना आसन् यन्न केनाऽपि दृष्टिस्तस्योपरि प्रसारिता । अतस्ततोऽग्रे प्रचलितः सः । एकत्र च सम्भूय स्थितं जनसमूहं स दृष्टवान् । तत्र गत्वा स स्थितः। सर्वे जना अपि नवीनं तमागतं दृष्ट्वा तमेव सम्मुखीकृत्य स्थितवन्तः । सोऽपि सर्वेभ्यः कुशलोदन्तं पृष्टवान् सस्नेहम् । पश्चाच्च तेषां सर्वेषां परिचयार्थमेकैकमकार्य पृच्छति - वत्स ! कस्त्वम् ? अहं हिन्दुः । तर्हि त्वम् ? अहमपि तादृश एव । भवतः परिचय: ? अहं मुस्लिमः । ६६ - मुनिरत्नकीर्तिविजय: । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120