Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 66
________________ अनुवादः को नरः श्रेष्ठः? __मुनिधर्मकीर्तिविजयः आगच्छत्येव सर्वेषां नराणां जीवने केनाऽपि प्रकारेण विपत्तिः । कदाचिदात्मनः कारणात्, कदाचिदन्येषां वशात्, कदाचित्तु अकस्मादेव, किन्तु मनुष्यजीवने विपत्तु आगच्छत्येव। "साऽऽपत्तिः कथं सह्यतेऽस्माभिः ?' इत्येवाऽस्त्यत्र प्रश्नः । यथाकालं विविधैरुपायैः आपतिता विपत्तिरपि शाम्यति, परंतु यावन्न सा शाम्येत् तावत्तु सा विपत्त् सहनीयैव । सा कथं सहनीया? विपत्तिं सोढुमेक एव उपायः समतेति । अतीव धैर्यमपूर्वा समता च यद्यस्माभिः यथार्थमभ्यस्यते तर्हि चित्तं शमं धृत्वाऽव्याकुलमेव भवेत् । ततस्तदा प्राप्नुयातां द्वौ लाभौ - आपत्तिं सोढुं शक्तिः प्राप्यतेऽन्यच्च तस्याः विपदो निवारणस्योपायोऽपि साध्यते । न कदापि सा विपत्तिः क्रोधात्, उद्वेगात्, संतापात्, व्याकुलतायाश्च निर्मूला भवति, प्रत्युत साऽऽपत्तिरतीव कठिना दुस्सहा च भवतीति तु निश्चितमेव । ततो यदि चेदेतादृशी परिस्थितिः सृजेत् तर्हि माध्यस्थ्यमव्याकुलत्वं वा धारयेत्, तथा च धीरत्वं सहिष्णुतां शमं च धृत्वा तस्याः विपदः प्रतिकारः कर्तव्यः, इत्येव प्राज्ञत्वस्य लक्षणमस्ति। "आपतिता परिस्थितिः शमत्वेन स्वीकरणीया'' एतदेव यथार्थं पौरुषमस्ति । "यो न बलं त्यजेत्, न च शरणं गच्छेत्" स एव श्रेष्ठो नरोऽस्ति । (अनूदितम्) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120