Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ॐ58
आस्वादः प्रभुमहावीरस्य करुणागर्भिता साधना ।
मुनिधर्मकीर्तिविजयः। आत्मनो विशुद्धगुणानां प्रकटीकरणार्थं या क्रिया सा साधना। आत्मनो गुणैः सह तादात्म्यभावमवाप्तुं यो प्रयत्नः क्रियते स साधना। आत्मन आत्मना सह मिलनमिति साधना। आत्मनो निरीक्षणमिति साधना। यया कयाऽपि प्रवृत्त्या क्रियया चाऽऽत्मनो हितं साध्यते सा साधना।
यया शुभप्रवृत्त्याऽपि केषाञ्चिदपि जीवानामहितमशुभं वोद्भवति सा प्रवृत्तिः न कथ्यते साधना, अपि तु केवलं क्रियाकाण्डमेव । __ साधनां साधयितुं तस्याः पूर्वाभ्यासः आवश्यकोऽस्ति । एतत्तु वयं सर्वेऽपि जानीमहे यद्विश्वस्य सर्वेष्वपि क्षेत्रेषु तत्कार्यस्याऽनुभवं विना दुःशक्या कार्यसिद्धिः । यदि चेद्विमानचालकः (पायलोटः) पूर्वानुभवमृते विमानयानमुड्डयेत तर्हि स आत्मना सहाऽन्येषामपि जीवानां घातं कुर्यात्, ततोऽनुभवाभ्यासोऽवश्यं पालनीयः । तथैव यस्याऽस्ति स्पृहांऽऽग्लवैद्यो भवितुं तेन बहुवर्षपर्यन्तमदृष्ट्वा रात्रिदिवं वाऽभ्यासः करणीयः । तत्पश्चाद् यावद्वर्षद्वयमांग्लवैद्यस्य अभ्यासस्याऽनुभवोऽभ्यसनीयः । तत्र यदि चेदुत्तीर्णो भवेत्तहि स आंग्लवैद्यरूपेण विख्यातो भवति । तथैवाऽत्रापि साधनायाः अभ्यासोऽप्यवश्यमेव कर्तव्यः ।
"एवं भवेत्तर्हि कथं दीक्षायाः पश्चात् क्षणार्धेनैव कुटुम्बपरिवारभोगविलाससुखादिसर्वमपि तथा सर्वथा शरीरस्य रागमपि निराकृत्य श्रीमहावीरविभुः उत्कृष्टसाधनां हस्तगतां कर्तुं समर्थीभूतः" इति केषाञ्चिन्मनसि प्रश्न उत्पद्यते । तदा तैरेवं ज्ञेयं यन्महावीरप्रभोः उत्कृष्टसाधनायाः मूले पूर्वषड्विशतिभवानां कृता साधना समाविष्टाऽस्ति। प्रथमभवादारभ्य षड्विंशतितमभवपर्यन्तं क्रमशः प्रत्येकं भवेषु आध्यात्मिकदृष्ट्या भगवत आत्मसाधनायाः विकास एव दृश्यते । तद्वशादेवाऽन्तिमभवे उत्कृष्टसाधना सहजीभूता।
सप्तविंशतितमभवेऽपि गर्भावासे एव भगवता साधनायाः प्रारम्भोऽकारि। "न भवेन्मातुः
४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120