Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
वक्तुं समर्थो भवति, यतो द्वयोरपि चित्ते मलिनवृत्तिः पापं चाऽस्ति । एषा प्रणालिकाऽस्माभिरनुभूयते एव यद् राजकीयक्षेत्रे शैक्षणिकक्षेत्रे धार्मिकक्षेत्रे वा तस्य तस्य क्षेत्रस्य नियमविरुद्धं लोकविरुद्धं चाऽसभ्यवर्तनं यदि नाम कोऽपि कुर्यात् तदा तस्य कार्यस्य विरोधी यदि जनैः क्रियेत तथाऽपि तत्क्षेत्राधिकारी तमसभ्यवर्तनं कुर्वन्तमधिकारिणं न किमपि कथयितुं समर्थो भवति; यतोऽद्यपर्यन्तं तेनाऽप्येवमेव कृतम् । यदि चेत्तेन विरोधः क्रियते, तदा तस्योत्तराधिकारिणो मनसि द्वेषः उत्पद्यते । तथा च सति स उत्तराधिकारी तस्य क्षेत्राधिकारिणोऽनिष्टकार्यं समाजे लोके च प्रसिद्धयेत् तर्हि तस्याऽयशो भवेत् प्रत्युत स्वपदात् भ्रष्टो भवेदिति भीत्या न किमपि करोति न च कारयति सः क्षेत्राधिकारी । सर्वेष्वपि क्षेत्रेषु "कनिष्ठो ज्येष्ठस्य, ज्येष्ठः कनिष्ठस्य च ' ' इति सर्वेऽपि अधिकारिणः परस्परं दोषाच्छादनं कुर्वन्ति ।
एतादृक्कार्यकरणे नाऽन्यत् किमपि कारणं, किन्तु स्वार्थबुद्धिरेव एतादृशमशुभं कार्यं कर्तुं प्रेरयति । मया तस्य साहाय्यं न क्रियेत तदा भविष्यत्काले मदीये कार्ये सोऽपि साहाय्यं न करिष्यतीति अस्मांक तुच्छया स्वार्थबुद्धया समस्तस्याऽपि समाजस्य राज्यस्य कुटुम्बस्य वाऽतीवाऽहितं भवति। अस्माभिः क्षणिकसुखार्थं स्वस्य महत्त्वाकाङ्क्षायाः पुष्टयर्थं आत्मनः पदप्रतिष्ठार्थं च देशादीनामवहेलना क्रियते किन्तु एतन्नोचितम् ।
किञ्च - दोषाच्छादनस्य प्रवृत्त्या भवत्येवं यत् सर्वत्र दुष्टवृत्तिरेव प्रसरेत्, तथैव सर्वेष्वपि क्षेत्रेषु विपुलप्रमाणेन दुर्जनानामेव वृद्धिः भवेत् । ततः सदा सज्जनाः शिष्टपुरुषाः सत्कार्यकरणात् सर्वजनहितार्थप्रवृत्तेः दूरमेव संतिष्ठेरन् अथ कदाचित् यदि नाम कोऽपि शिष्टपुरुषः कस्यापि दुर्जनस्य दुष्टकार्यं निरोद्धुमुत स्वयं सत्कार्यं कर्तुं प्रवृतिमान् भवेत् तर्हि स दुर्जन: तस्य परिहासं कुर्यात्,असत्यमाक्षेपादिकमारोप्य तस्य दुर्गुणानेव मृगयेत । प्रान्ते तं सज्जनं- शिष्टपुरुषं तत्क्षेत्राद् बहिःकर्तुमेव सदा प्रयत्नं कुर्यात् ।
एवं च सति प्रतिष्ठितपुरुषाणां सज्जनानां चित्ते कदाचिदशुभविकल्पाः उद्भवेयुः यद् “मयाऽद्यपर्यन्तं सत्कार्यमेव कृतं, देशस्य समाजस्य हितकरकार्येष्वेव सदा सहयोगो विहितः तथाऽपि ममोपेक्षैव भवति, अवगणनैव भवति । तथा च तैः दुर्जनैः सदा देशस्य समाजस्य
4
Jain Education International
४०
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120