Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 50
________________ धर्मस्य च विद्रोह एव कृतः दुष्टमेव कार्यमाचरितं, तथाऽपि तेषामेव प्रशंसां कुर्वन्ति, तानेव पूजयन्ति सन्मानयन्ति च जनाः ततो मयाऽप्येवमेव करणीयमि"ति । एवं सज्जना अपि कदाचिद् दुर्भाग्यबलेन दुष्टकार्य प्रशस्य तदशुभकार्येषु सहयोगं दद्युः तर्हि सर्वत्र सज्जनानामभाव एव भवेत् । अतो यद्यत्र दुष्टपुरुषाः अयोग्यजना वा एव सर्वेषामपि क्षेत्राणामधिपतयो भवेयुः तर्हि तत्क्षेत्राणां विकासः कथं संभवेत् ? एतादृस्थितौ अशक्य एव विकासः । एवं च तावद् देशस्य समाजस्य शिक्षणस्य कुटुम्बस्य धर्मस्य च पतनमेव भवेद् यावत् परस्परं दोषाच्छादनवृत्तिः विद्यते। अथ द्वितीयकारणे दृष्टिपात: भारतदेशस्य राजकीये शैक्षणिके क्रीडाक्षेत्रे धार्मिकक्षेत्रे चेति कस्मिन्नपि क्षेत्रे न पक्षपातः संभवेदिति अशक्यम् । एतेषु क्षेत्रेषु प्रधानाधिकारिभ्यः आरभ्य चरमाधिकारिपर्यन्तं सर्वेऽपि अधिकारिणः पक्षपातवृत्तिं धारयन्ति । ___अधुना त्वीदृशी स्थितिः वर्तते यद् चेत् युष्माकं कैश्चिदपि अधिकारिभिः सह सम्बन्धः स्यात् तर्हि कस्याऽपि क्षेत्रस्य महदपि कार्यमस्खलितं सरलतया च भवेत् किन्तु न भवेत् सम्पर्कः तर्हि सामान्यमपि कार्यं धनराशिव्ययेनाऽतीव परिश्रमेण चाऽपि न सिद्धयेत् । एषा वृत्तिः सर्वत्र निराबाधं प्रचलति । तत एवाऽधुना वयं सर्वेषु क्षेत्रेषु दरिद्राः किङ्कराश्च स्मः। एतस्याः पक्षपातवृत्तेः एकं सूत्रमस्ति- यान् प्रति सद्भावो ममत्वमस्ति, तादृशां प्रियजनानां दुर्गुणा अपि गुणत्वेन दृश्यन्ते तथाऽप्रियजनानां गुणा अपि दुर्गुणरूपत्वेन निरीक्ष्यन्ते। अधुनाऽपि तत्सूत्रस्याऽनुसरणं सर्वत्र सर्वैः क्रियते, तत एवाऽधुना तस्य क्षेत्रस्याऽधिकारिणः शक्तिविहीनानज्ञजनानपि स्वस्य सम्बन्धिन एवोत्तराधिकारिरूपेण स्थापयन्ति । एवं भूते सति पक्षपातवृत्तेः वशात् देशे समाजे च स्थितानां शक्तिसम्पन्नानां बुद्धिमतां जनानां च चातुर्यस्य शक्तेश्च यथार्थमुपयोगो न भवति । एवं पक्षपातवृत्त्या सर्वेष्वपि क्षेत्रेषु प्रेक्षावन्तः शिष्टजनाश्च किङ्करत्वमनुसरन्ति । तथा दुष्टजनाः अशिक्षिताः निम्नजनाश्चोत्तमपुरुषाणामुपरि शासनं कुर्वन्ति । उत्तरप्रदेशे एतवृत्तिः प्रत्यक्ष प्रमाणीभूयते एव । अहो ! एष को न्यायः? ४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120