Book Title: Nandanvan Kalpataru 2001 00 SrNo 06
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आस्वादः
संसार: !
एकं घटनाचक्रम् ॥
ईप्सितानामनीप्सितानां, निश्चितानामनिश्चितानां च घटनानां चक्रम् ।
घटना यथा सङ्घटयन्ति तथा विघटयन्त्यपि च ।
यदैकत्र सङ्घटनं भवति तदा ततोऽन्यत्र विघटनमपि भवत्येव । यथा - यद्येकत्र वल्मीकं क्रियते तदाऽन्यत्र गर्ताऽपि जायत एव ।
न घटनाः परिवर्तन्ते अपि तु पुनरावर्तन्ते, मानवानामेव किन्तु परिवर्तनं भवति ।
संसारे जीवनेऽपि च पुनरावर्तनं भवति सततं घटनानाम् । तदेव च दर्शयति यद् - अस्ति मनुष्येषु बुद्धिः, न किन्तु बोध: कश्चित् ।
भिन्न-भिन्न घटना काश्चिदन्या किन्तु जीवनस्य शिक्षणार्थं भिन्न-भिन्नानि प्रकरणानि सन्ति। घटनाजन्यं सुखं दुःखं वा त्वस्माकं मनसो रुच्यरुच्योश्च परिणामोऽस्ति । तच्चाऽत्यन्तं स्थूलः परिणामः तस्या: । वस्तुतस्तु घटना: शिक्षयन्ति आन्तरिकं च बोधं जागरयन्ति । सुखिनो वा दुःखिनो वा यदा वयं भवामस्तदा त्वस्माकं चित्ते केन्द्रवर्ती स्वार्थ एव विद्यते । स च स्वार्थो यदा पुष्टो भवति घटनाभिस्तदा वयं सुखमनुभवामः यदा च क्षतो भवति तदा दुःखमनुभवामः ।
यतः स्वार्थस्तु वर्तमानमेव लक्षयति । यदा च वयं बोधं प्राप्नुमो घटनाभ्यस्तदा विद्यतेऽस्माकं चित्ते स्वहितम् । हितं च जीवनं लक्षयति ।
बहुलतया संसारस्था आत्मानः सुखिनो वा दुःखिनो वैव भवन्ति किन्तु शिक्षणं बोधं वा न प्राप्नुवन्ति । अत एव च घटनानां पुनरावर्तनं भवति । संसारोऽपि चैवमेवाऽनुवर्तते ।
कालः किलाऽगम्यपारोदधितुल्योऽस्ति । अनन्तैरात्मभिः सम्बद्धा अनन्ताश्च घटना अस्मिन्नवहन् प्रवहन्ति चाऽस्खलितम् । घटनानुषङ्गिकाणि सुखानि दुःखानि चाऽप्यस्मिन्नेव
Jain Education International
चिन्तनधारा
- मुनिरत्नकीर्तिविजयः ।
३६
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120