Book Title: Karmprakruti
Author(s): Hiralal Shastri
Publisher: Bharatiya Gyanpith

Previous | Next

Page 120
________________ अज्ञाताचार्य-प्रणीता द्वितीया कर्मप्रकृति-टीका गा०१-अहं नेमिचन्द्रकविः प्रकृतिसमुत्कीर्तनं प्रकृतीनां ज्ञानावरणादिमूलोत्तरभेदयुक्तानां समुत्कीर्तनं कथनं विवरणं वोच्छं वक्ष्ये कथयिष्ये । किं कृत्वा ? सिरसा मस्तकेन नेमि नेमिनाथतीर्थक स्वामिनं पणमिय प्रणम्य नमस्कृत्य । किंभूतं नेमिम् ? [गुणरयणविहूसणं ] गुणाः अहिंसादयः, त एव रत्नानि, तान्येव विभूषणानि श्राभरणानि यस्य स गुण-[ रत्नविभूषण-] स्तम् । [ पुनः किंभूतम् ? महावीरं ] महांश्चासौ वीरश्च महावीरस्तं महावीरम् । [पुनः किंभूतम् ? सम्मत्तरयणणिलयं] स्वस्वरूपलाभः सम्यक्त्वं सप्तप्रकृतिक्षयलक्षणं क्षायिकसम्यक्त्वं वा, तदेव रत्नं तस्य निलयं स्थानं आश्रयस्तम् । अथवा किं कृत्वा ? महावीरं प्रणम्य, महती विशिष्टा चासौ ई लक्ष्मीश्च तां राति ददातीति गृहातोति महावीरस्तम् , प्रणम्य । कीदृशं महावीरम् ? [ नेमिम् ] निजोद्भतपुण्यमाहात्म्येन नागेन्द्रनरेन्द्र-देवेन्द्रवन्धं निजपादारविन्दद्वन्द्वं नमयतीति नेमिः । यदि वा तीर्थक-रथ-प्रवर्तकपरत्वानेमिरिव नेमिः, चक्रधरः । एतादृशं महावीरम् । एतानि सर्वाणि विशेषणानि अस्यापि भवन्ति वीरपक्षे। नेमिनाथपक्षे नेमिचन्द्रं कविः प्रणम्य ॥३॥ गा०२-वाक्यम-स्वभावो हि स्वभाववन्तमपेक्षत इति । कयोः स्वभावः ? जीवकर्मणोः । तत्र रागादिपरिणमनमात्मन: स्वभावः,रागाद्यत्पादकत्वं तु कर्मणः, तदितरेतराश्रयदोषः । इतरेतराश्रयपरिहारार्थमनयोः सम्बन्धः अनादिः। किंवत् ? कनकोपलवत् अनयोरस्तित्वं कथं सिद्धमित्युक्त आह-स्वतः सिद्धमिति चेत् ? अहंम्प्रत्ययवेद्यत्वेनात्मनोऽस्तित्वम् ; एको दरिद्रः, एकः श्रीमान् इति विचित्रपरिणमनास्कर्मणोऽस्तित्वं सिद्धमिति । जीवंगाणं जीव अङ्गयोः । प्रकृतिः स्वभावः । [अणाइसंबंधो] अनादिसंबन्धः प्रवर्तते । प्रकृतिः शीलं स्वभावमिति प्रकृतिपर्यायनामानि । स्वभावस्य किं लक्षणमिति चेत्कारणान्तरनिरपेक्षत्वं स्वभावः । वा यथा जलस्य निम्नगमनं स्वभावः, यथाऽग्नरूर्ध्वगमनं स्वभावः, यथा [ वायोः ] तिर्यग्गमनं स्वभावः । स च स्वभावः स्वभाववन्तं अपेक्षते वाञ्छते । स स्वभावः कयोः ? जीवकर्मणोः । कयोरिव ? कनकोपलयोलमिव । यथा कनकपाषाणे मलसम्बन्धः अनादिः वर्तते । इतरेतराश्रयदोषप्रसङ्गः स्यात् तत्परिहारार्थ निवारणार्थ अनयोः जीव-कर्मणोः सम्बन्धः अनादिः वर्तते [ इत्युक्तम् ] ॥२॥ गा०३-देहोदएण औदारिक १ वैक्रियिक २ आहारक ३ तैजस ४ कार्मण ५ शरीरपञ्चकम् , तस्योदयेन 1 जीवः कर्म-नोकर्म पुद्गलवाणवः ( लाणून् ) आहरदि आकर्षति । विग्रहगतो कहतां (गच्छतां) , स्वकीयशरीरं त्यक्त्वा गत्यन्तरनैकरतांथकां( ) तेन शरीरत्रयेण ३ विना कमैवाऽऽकर्षति न तु नोकर्मकैः । समय-समयं प्रति इति प्रतिसमयं सर्वाङ्गः सर्वात्मप्रदेशैः जगच्छणिधनप्रमितजीवप्रदेशः स्वस्वसंज्ञं कर्म, नोकर्म आकर्षति । औदारिकवैक्रियिकाऽऽहारकशरीरवर्गणा नोकर्म उच्यते । [ तत्तायसपिंडउठव जलं ] अयसि भवं आयसम् । यथा आयसं तप्तलोह पिण्डः गोलकः सर्वात्मप्रदेशः जलं आकर्षति गृह्णाति; तथा शरीरनामोदयेन सहितो जीवः कर्म नोकर्म प्रतिसमयं आहरतीत्यर्थः ॥४॥ 1. तत्र कामणनामोदयजनितयोगेन । ( गो० क.टी.) Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198