Book Title: Karmprakruti
Author(s): Hiralal Shastri
Publisher: Bharatiya Gyanpith

Previous | Next

Page 132
________________ अनुभागबन्ध गा० १३१-केन्द्रिया मिथ्यावीस्कृष्टस्थितिमेकसागरोपमा बध्नन्ति, द्वीन्द्रियाः पञ्चविंशतिसागरोपमाणि, त्रीन्द्रियाः पञ्चाश-सागरोपमाणि, चतुरिन्द्रियाः शतसागरोपमाणि, असंज्ञिनः सहस्रसागरोपमाणि, संजिनः पर्याप्ता एव सप्ततिकोटीकोटिसागरोपमाणि । तज्जवन्यस्तु एकेन्द्रिय-द्वान्द्रियादीनां स्व-स्वोत्कृष्टात् पल्यासंख्येय-पल्यसंख्येयमागोनक्रमो भवति ॥१३९॥ गा०१४०-शुभप्रकृतीनां सातादीनां प्रशस्तानां विशुद्धि परिणामेन, असातायत्रशस्तानां संक्लेशपरिणामेन च तीवानुमागबन्धो भवति । विपरीतेन संक्लेशपरिणामेन प्रशस्तानां विशुद्धिपरिणामन च अप्रशस्तानां च जवन्यानुभागवन्धो भवति ॥१४॥ गा० १४१ -घातिनां ज्ञान-दर्शनावरण-मोहनोयान्तरायाणां शक यः स्पर्धकानि लतादावस्थिशैलोपमचतुर्विभागेन तिष्ठन्ति खलु स्फुटम् । तत्र लतामागमादिं कृत्वा दार्वनन्तैकमागपर्यन्तं देशघातिन्यो भवन्ति । तत उपरि दार्वनन्त बहुभागमादिं कृत्वा अस्थि-शैलमागेषु सर्वत्र सर्ववातिन्यो मवन्ति ॥१४१॥ गा० १४२-लतामागमादिं कृत्वा दार्वनन्तकभागपर्यन्तानि देशघातिस्पर्धकानि सर्वाणि सम्य. क्वप्रकृतिर्भवति, शेषदार्वनन्त बहभागेषु अनन्तखण्डीकृतेषु एकखण्टुं जात्यन्तरसर्वघातिमिश्रप्रकृतिमवति । शेषदार्वनन्तबहभागमागाः अस्थि-शिलास्पर्धकानि च सर्ववातिमिथ्यात्वप्रकृतिर्भवति ॥४२॥ गा०१४३-अवातिनां प्रतिभागाः शक्ति विकल्याः प्रशस्तानां गुड-खण्ड-शर्करामृतसदृशाः खलु स्फुटम् । अप्रशस्तानां निम्ब-काझीर-विष-हालाहलसदृशाः खलु स्फुटम् । सर्वप्रकृतयः १२१। तासु घातिन्यः ४७, अघातिन्यः ७५। एतासु प्रशस्ताः ४०, अप्रशस्ताः ३३, अप्रशस्तवर्ण चतुष्कमस्तीति तम्मिलिते ३७ भवन्ति ॥१४३॥ गा० १४४-श्रुत-तद्धरादिषु अविनयवृत्तिः प्रत्यनीकं प्रतिकूलतेत्यर्थः । ज्ञानविच्छेदकरणमन्तरायः। मनसा वाचा वा प्रशस्तज्ञानदूषण मध्येतृपु क्षुद्रबाधाकरणं वा उपघातः । तत्प्रदोषः तत्त्वज्ञाने हर्षाभावः । तस्य मोक्षसाधनस्य कीर्तने कृते कस्यचिदनभिव्याहरतोऽन्तःपैशुन्यं वा प्रदोषः। कुतश्चित्कारणात् जाननपि नास्ति, न वेद्मीति व्यपलपनमप्रसिद्धगुरून पलप्य प्रसिद्धगुरुकथनं वा निवः। काय-वाग्भ्यामननुमननं कायेन वाचा वा परप्रकाश्यज्ञानस्य वर्जनं वेत्यासादना। एतेषु षटसु सत्सु जीवो ज्ञान-दर्शनावरणद्वयं भूयो बध्नाति-प्रचुरवृत्त्या स्थित्यनुभागी बनातीत्यर्थः । ते च षडपि तवयस्य युगपद् बन्धकारणानि तु तथा बन्धात् । अथवा विषयभेदादास्रवभेद:-ज्ञानविषयत्वेन ज्ञानावरणस्य, दर्शनविषयत्वेन दर्शनावरणस्येति ॥१४॥ गा० १४५-गतौ गतौ कर्मोदयवशाद् भवन्तीति भूताः प्राणिनः, तेष्वनुकम्पा । व्रतानि हिंसादिविरतिः । योगः समाधिः सम्यक प्रणिधानमित्यर्थः । तैर्युकः । क्रोधादिनिवृत्तिलक्षणक्षान्त्या चतुर्विधदानेन पञ्चगुरुमक्या च सम्पन्न: स जीवः सातं तीव्रानुभागं भूयो बध्नाति । तद्विपरीतस्तादृगसातं बध्नाति ॥१४५॥ गा० १४६-दुःख-वध-शोक-तापाक्रन्दनं परिदेवनं च आत्मनि स्थितं अन्यस्थितं उभयस्थितमिति वा असाताया बन्धं करोति ॥१४६॥ गा० १४७-योऽहं सिद्धचैत्य-तपो गुरु-श्रुत-धर्म-संघप्रतिकूलः स तदर्शनमोहनीयं बध्नाति, येनोदयागतेन जीवोऽनन्तसंसारी स्यात् ॥१४७॥ गा० १४८–यः तीव्रकषाय-नोकषायोदययुतः बहुमोहपरिणतः राग-द्वेषसंसक्तः च रित्रगुणविनाशनशोलः स जीवः कषाय-नोकषायभेदं द्विविधमपि चारित्रमोहनीयं बध्नाति ॥१४८॥ - गा० १४९-यो जीवो मिथ्यात्वयुक्तः स्फुटं महारम्भः शीलरहितः, तीव्रलोभसंयुक्तः रौद्रपरिणामः पापकारणबुद्धिः स नरकायुः निबन्नाति ॥१४९।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198