Book Title: Karmprakruti
Author(s): Hiralal Shastri
Publisher: Bharatiya Gyanpith

Previous | Next

Page 133
________________ कर्मप्रकृति गा० १५० - यो जीव उन्मार्गदेशकः सम्मार्गनाशक: गूढहृदयः मायी कपटी शठशीलः सशल्यः स तिर्यगायुः नाति ॥ १५०॥ ९८ गा० १५१ - यो जीवः प्रकृत्या स्वभावेन तनुकषायः मन्दकषायोदयः दानरतिः दाने रतिः प्रीतिर्यस्य स एवम्भूतः शीलैः संयमेन च विहीनः मध्यमगुणैर्युक्तः स मनुष्यायुर्बध्नाति ॥ १५१ ॥ गा० १५२ – यः सम्यग्दृष्टिर्जीवः स केवलं सम्यक्त्वेन साक्षादणुव्रतैः महाव्रतैर्वा देवायुर्बध्नाति । यो मिथ्यादृष्टिर्जीवः स उपचाराणुव्रत महाव्रतैः बालतपसा श्रकामनिर्जरया च देवायुर्बध्नाति ॥ १५२॥ गा० १५३ – यो जीवो मनोवचनकायैर्वक्रः मायावी गारवत्रयप्रतिबद्धः स नरक- तिर्यग्गत्याद्यशुभं नामकर्म बनाति । तत्प्रतिपक्ष परिणामैर्हि शुभं नामकर्म बध्नाति ॥ १५३ ॥ गा० १५४-१५७ - दर्शन विशुद्धिः विनयसम्पन्नता तथा शीलव्रतेष्वनतीचार: आमीक्ष्णज्ञानोपयोगः संवेगः शक्तितस्त्याग-तपसी साधुसमाधिः तथैव ज्ञातव्यः । वैयावृत्यं क्रिया श्रर्हद्भक्तिराचार्य भक्तिः बहुश्रुतभक्तिः प्रवचने परमा भक्तिः श्रावश्यक क्रियाऽपरिहाणिश्च मार्गप्रभावना प्रवचनवात्सल्यमिति जानीहि । एताभिः प्रशस्ताभिः षोडशभावनाभिः केवलिमूले समीपे तीर्थंकरनामकर्म कर्मभूमिजो मनुष्यः - बध्नाति ॥१५४-१५७ ॥ गा० १५८ - तीर्थंकर सत्कर्मा जीवः तृतीयभवे वा तद्भवे एव स्फुटं सिद्ध्यति । क्षायिकसम्यक्त्वी जीवः पुनः उत्कर्षेण चतुर्थभवे सिद्धयति ॥ १५८ ॥ गा० १५९ - योऽर्हदादिषु मक्तः सूत्रेषु गणधराद्युक्तागमेषु पठनानुमननगुरुदर्शी श्रद्धाध्ययनार्थविचारविनयादिगुणदर्शी स जीव उच्चैर्गोत्रं बध्नाति । तद्विपरीतो नीचैर्गोत्रं बध्नाति ॥ १५९ ॥ गा० १६० – परात्मनो: निन्दाप्रशंसे, अन्येषां विद्यमानगुणानामाच्छादनं स्वस्याविद्यमानगुणानां उद्भासनं प्रकटीकरणं च नीचगोत्रबन्धस्यास्रवहेतवः ॥ १६० ॥ गा० १६१ - यः द्वि. त्रि- चतुरिन्द्रियादिप्राणिवधादिषु स्व-परकृतेषु प्रीतः जिनपूजाया रत्नत्रयप्राप्तेश्व स्वान्ययोविघ्नकरः स जीवस्तदन्तरायकर्म अर्जयति येनोदयागतेन यदीप्सितं तन लभते ॥ १६१ ॥ इति श्रीनेमिचन्द्रसिद्धान्तिविरचितकर्मप्रकृतिग्रन्थः समाप्तः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198