________________
कर्मप्रकृति
गा० १५० - यो जीव उन्मार्गदेशकः सम्मार्गनाशक: गूढहृदयः मायी कपटी शठशीलः सशल्यः स तिर्यगायुः नाति ॥ १५०॥
९८
गा० १५१ - यो जीवः प्रकृत्या स्वभावेन तनुकषायः मन्दकषायोदयः दानरतिः दाने रतिः प्रीतिर्यस्य स एवम्भूतः शीलैः संयमेन च विहीनः मध्यमगुणैर्युक्तः स मनुष्यायुर्बध्नाति ॥ १५१ ॥
गा० १५२ – यः सम्यग्दृष्टिर्जीवः स केवलं सम्यक्त्वेन साक्षादणुव्रतैः महाव्रतैर्वा देवायुर्बध्नाति । यो मिथ्यादृष्टिर्जीवः स उपचाराणुव्रत महाव्रतैः बालतपसा श्रकामनिर्जरया च देवायुर्बध्नाति ॥ १५२॥
गा० १५३ – यो जीवो मनोवचनकायैर्वक्रः मायावी गारवत्रयप्रतिबद्धः स नरक- तिर्यग्गत्याद्यशुभं नामकर्म बनाति । तत्प्रतिपक्ष परिणामैर्हि शुभं नामकर्म बध्नाति ॥ १५३ ॥
गा० १५४-१५७ - दर्शन विशुद्धिः विनयसम्पन्नता तथा शीलव्रतेष्वनतीचार: आमीक्ष्णज्ञानोपयोगः संवेगः शक्तितस्त्याग-तपसी साधुसमाधिः तथैव ज्ञातव्यः । वैयावृत्यं क्रिया श्रर्हद्भक्तिराचार्य भक्तिः बहुश्रुतभक्तिः प्रवचने परमा भक्तिः श्रावश्यक क्रियाऽपरिहाणिश्च मार्गप्रभावना प्रवचनवात्सल्यमिति जानीहि । एताभिः प्रशस्ताभिः षोडशभावनाभिः केवलिमूले समीपे तीर्थंकरनामकर्म कर्मभूमिजो मनुष्यः - बध्नाति ॥१५४-१५७ ॥
गा० १५८ - तीर्थंकर सत्कर्मा जीवः तृतीयभवे वा तद्भवे एव स्फुटं सिद्ध्यति । क्षायिकसम्यक्त्वी जीवः पुनः उत्कर्षेण चतुर्थभवे सिद्धयति ॥ १५८ ॥
गा० १५९ - योऽर्हदादिषु मक्तः सूत्रेषु गणधराद्युक्तागमेषु पठनानुमननगुरुदर्शी श्रद्धाध्ययनार्थविचारविनयादिगुणदर्शी स जीव उच्चैर्गोत्रं बध्नाति । तद्विपरीतो नीचैर्गोत्रं बध्नाति ॥ १५९ ॥
गा० १६० – परात्मनो: निन्दाप्रशंसे, अन्येषां विद्यमानगुणानामाच्छादनं स्वस्याविद्यमानगुणानां उद्भासनं प्रकटीकरणं च नीचगोत्रबन्धस्यास्रवहेतवः ॥ १६० ॥
गा० १६१ - यः द्वि. त्रि- चतुरिन्द्रियादिप्राणिवधादिषु स्व-परकृतेषु प्रीतः जिनपूजाया रत्नत्रयप्राप्तेश्व स्वान्ययोविघ्नकरः स जीवस्तदन्तरायकर्म अर्जयति येनोदयागतेन यदीप्सितं तन लभते ॥ १६१ ॥
इति श्रीनेमिचन्द्रसिद्धान्तिविरचितकर्मप्रकृतिग्रन्थः समाप्तः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org