________________
अनुभागबन्ध
गा० १३१-केन्द्रिया मिथ्यावीस्कृष्टस्थितिमेकसागरोपमा बध्नन्ति, द्वीन्द्रियाः पञ्चविंशतिसागरोपमाणि, त्रीन्द्रियाः पञ्चाश-सागरोपमाणि, चतुरिन्द्रियाः शतसागरोपमाणि, असंज्ञिनः सहस्रसागरोपमाणि, संजिनः पर्याप्ता एव सप्ततिकोटीकोटिसागरोपमाणि । तज्जवन्यस्तु एकेन्द्रिय-द्वान्द्रियादीनां स्व-स्वोत्कृष्टात् पल्यासंख्येय-पल्यसंख्येयमागोनक्रमो भवति ॥१३९॥
गा०१४०-शुभप्रकृतीनां सातादीनां प्रशस्तानां विशुद्धि परिणामेन, असातायत्रशस्तानां संक्लेशपरिणामेन च तीवानुमागबन्धो भवति । विपरीतेन संक्लेशपरिणामेन प्रशस्तानां विशुद्धिपरिणामन च अप्रशस्तानां च जवन्यानुभागवन्धो भवति ॥१४॥
गा० १४१ -घातिनां ज्ञान-दर्शनावरण-मोहनोयान्तरायाणां शक यः स्पर्धकानि लतादावस्थिशैलोपमचतुर्विभागेन तिष्ठन्ति खलु स्फुटम् । तत्र लतामागमादिं कृत्वा दार्वनन्तैकमागपर्यन्तं देशघातिन्यो भवन्ति । तत उपरि दार्वनन्त बहुभागमादिं कृत्वा अस्थि-शैलमागेषु सर्वत्र सर्ववातिन्यो मवन्ति ॥१४१॥
गा० १४२-लतामागमादिं कृत्वा दार्वनन्तकभागपर्यन्तानि देशघातिस्पर्धकानि सर्वाणि सम्य. क्वप्रकृतिर्भवति, शेषदार्वनन्त बहभागेषु अनन्तखण्डीकृतेषु एकखण्टुं जात्यन्तरसर्वघातिमिश्रप्रकृतिमवति । शेषदार्वनन्तबहभागमागाः अस्थि-शिलास्पर्धकानि च सर्ववातिमिथ्यात्वप्रकृतिर्भवति ॥४२॥
गा०१४३-अवातिनां प्रतिभागाः शक्ति विकल्याः प्रशस्तानां गुड-खण्ड-शर्करामृतसदृशाः खलु स्फुटम् । अप्रशस्तानां निम्ब-काझीर-विष-हालाहलसदृशाः खलु स्फुटम् । सर्वप्रकृतयः १२१। तासु घातिन्यः ४७, अघातिन्यः ७५। एतासु प्रशस्ताः ४०, अप्रशस्ताः ३३, अप्रशस्तवर्ण चतुष्कमस्तीति तम्मिलिते ३७ भवन्ति ॥१४३॥
गा० १४४-श्रुत-तद्धरादिषु अविनयवृत्तिः प्रत्यनीकं प्रतिकूलतेत्यर्थः । ज्ञानविच्छेदकरणमन्तरायः। मनसा वाचा वा प्रशस्तज्ञानदूषण मध्येतृपु क्षुद्रबाधाकरणं वा उपघातः । तत्प्रदोषः तत्त्वज्ञाने हर्षाभावः । तस्य मोक्षसाधनस्य कीर्तने कृते कस्यचिदनभिव्याहरतोऽन्तःपैशुन्यं वा प्रदोषः। कुतश्चित्कारणात् जाननपि नास्ति, न वेद्मीति व्यपलपनमप्रसिद्धगुरून पलप्य प्रसिद्धगुरुकथनं वा निवः। काय-वाग्भ्यामननुमननं कायेन वाचा वा परप्रकाश्यज्ञानस्य वर्जनं वेत्यासादना। एतेषु षटसु सत्सु जीवो ज्ञान-दर्शनावरणद्वयं भूयो बध्नाति-प्रचुरवृत्त्या स्थित्यनुभागी बनातीत्यर्थः । ते च षडपि तवयस्य युगपद् बन्धकारणानि तु तथा बन्धात् । अथवा विषयभेदादास्रवभेद:-ज्ञानविषयत्वेन ज्ञानावरणस्य, दर्शनविषयत्वेन दर्शनावरणस्येति ॥१४॥
गा० १४५-गतौ गतौ कर्मोदयवशाद् भवन्तीति भूताः प्राणिनः, तेष्वनुकम्पा । व्रतानि हिंसादिविरतिः । योगः समाधिः सम्यक प्रणिधानमित्यर्थः । तैर्युकः । क्रोधादिनिवृत्तिलक्षणक्षान्त्या चतुर्विधदानेन पञ्चगुरुमक्या च सम्पन्न: स जीवः सातं तीव्रानुभागं भूयो बध्नाति । तद्विपरीतस्तादृगसातं बध्नाति ॥१४५॥
गा० १४६-दुःख-वध-शोक-तापाक्रन्दनं परिदेवनं च आत्मनि स्थितं अन्यस्थितं उभयस्थितमिति वा असाताया बन्धं करोति ॥१४६॥
गा० १४७-योऽहं सिद्धचैत्य-तपो गुरु-श्रुत-धर्म-संघप्रतिकूलः स तदर्शनमोहनीयं बध्नाति, येनोदयागतेन जीवोऽनन्तसंसारी स्यात् ॥१४७॥
गा० १४८–यः तीव्रकषाय-नोकषायोदययुतः बहुमोहपरिणतः राग-द्वेषसंसक्तः च रित्रगुणविनाशनशोलः स जीवः कषाय-नोकषायभेदं द्विविधमपि चारित्रमोहनीयं बध्नाति ॥१४८॥
- गा० १४९-यो जीवो मिथ्यात्वयुक्तः स्फुटं महारम्भः शीलरहितः, तीव्रलोभसंयुक्तः रौद्रपरिणामः पापकारणबुद्धिः स नरकायुः निबन्नाति ॥१४९।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org