________________
कर्मप्रकृतिः
गा० १२८ - सुर-नरकायुषोः श्रोधः त्रयस्त्रिंशत्सागरोपमाणि । तिर्यङ्मनुध्यायुषोः त्रीणि पल्योपमानि । श्रयमुत्कृष्टस्थितिबन्धः संज्ञिपर्याप्तस्यैव, असंज्ञयन्तानामग्रे प्ररूपणात् । योग्ये इत्यनेन अयं संसारकारणत्वादशुभत्वात् शुभाशुभकर्मणां चातुर्गतिकसंक्लिष्टरेव बध्यत इत्यर्थः ।। १२८ ।।
गा० १२६–आयुस्त्रयवर्जितशुभाशुभप्रकृतीनां उत्कृष्टस्थितिकारणं संक्लेश एवेत्याह- तु पुनः तिर्यङ्-मनुष्य-देवायुर्वर्जितसर्वप्रकृतिस्थितीनां उत्कृष्टस्थितिबन्ध उत्कृष्टसंक्लेशेन भवति । तु पुनः तासां जघन्यस्थितिबन्ध उत्कृष्टविशुद्धिपरिणामेन भवति । तत्त्रयस्य तु उत्कृष्टं उत्कृष्टविशुद्धिपरिणामेन जघन्यः तद्विपरीतेन भवति ।। १२९ ।।
गा० १३० – आहारकद्विकं तीर्थं देवायुश्चेति चत्वारि मुक्त्वा ११६ प्रकृति सर्वोत्कृष्ट स्थितीनां मिथ्यादृष्टिरेव बन्धको भणितः । तच्चतुर्णां तु सम्यग्दृष्टिरेव ॥ १३१ ॥ तत्रापि विशेषमाह
गा० १३१ – देवायुः उत्कृष्टस्थितिकं प्रमत्त एवाप्रमत्तगुणस्थानाभिमुखो बध्नाति; अप्रमत्ते तद्व्युच्छित्तावपि तत्र सातिशये तीव्रविशुद्धत्वेन तदबन्धात् निरतिशये च तदुत्कृष्टासम्भवात् । तु पुनः आहारकद्वयं उत्कृष्टस्थितिकं अप्रमत्तः प्रमत्तगुणस्थानाभिमुखः संकिष्ट एवं बध्नाति, आयुस्वयवर्जितानां उत्कृष्टस्थितेः उत्कृष्टसंक्रेशेन इत्युक्तत्वात् । तीर्थंकरं उत्कृष्टस्थितिकं नरकगतिगमनाभिमुख मनुष्यासंयतसम्यग्दृष्टिरेव बध्नाति ।। १३१||
शेषाणां ११६ उत्कृष्टस्थितिबन्धकमिथ्यादृष्टीनां गाथाद्वयेनाह -
गा० १३२-१३३ – नरक-तिर्यङ- मनुष्यायूंषि वैक्रियिकषट्कं विकलत्रयं सूक्ष्मत्रयं चोत्कृष्टस्थितिकानि नराः तिर्यञ्चश्च बध्नन्ति औदारिकद्वयं तिर्यग्योद्योतासम्प्राप्ता सृपाटिकसंहननानि सुर-नारका एव एकेन्द्रियातपस्थावराणि पुनः देवाः, शेषद्वानवतिं उत्कृष्टसंक्लिष्टा ईषन्मध्यम संक्लिष्टाश्च चातुर्गतिकाः । उक्कस्सट्ठिदिबंधपाओग्गअसंखेज्जलोगपरिणामाणं पलिदोवमस्स असंखेजभागमेत्ताणि खंडाणि काढूण तत्थ चरमखंडस्स उक्वस्ससंकिलेसो णाम, पढमखंडस्स ईसिसंकिलेसो णाम, दोन्हं विच्चालखंडाणं मज्झिमसंकिलेसो णामेत्ति उच्चदि ।। १३२-१३३।।
गा० १३४ – जघन्यस्थितिबन्धो वेदनीये द्वादश मुहूर्त्ताः, नाम- गोत्रपौरष्टौ शेषपञ्चानां तु पुनः एकैोऽन्तर्मुहूर्त्तः ।। १३४।।
गा० १३५ – लोभस्य सूक्ष्मसाम्परायबन्धसप्तदशानां च जघन्य स्थितिबन्धः मूलप्रकृतिवद् भवति, tata द्वौ मासौ, मानस्य एकमासः, मायाया अर्धमासः, पुंवेदस्य अष्टवर्षाणि ।। १३५ ।।
गा० १३६— तीर्थंकराहारकद्विकयोरन्तःकोटी कोटिसागरोपमाणि । अयं जघन्यस्थितिबन्धः सर्वोऽपि क्षपकेषु स्व-स्वबन्धव्युच्छित्तिकाले एव नियमाद् भवति । तद्यथा - आसां तीर्थकराहारक शरीराहारकाङ्गोपाङ्गानां बन्धविच्छित्तिस्थानं श्रष्टमगुणस्थानकषष्ठमभागः, तत्र जघन्य स्थितिबन्धः । दशम गुणस्थाने लोमस्य जघन्यस्थितिबन्धः अन्तर्मुहूर्त्तकाल: । सूक्ष्मसाम्पराये ज्ञानावरणपञ्चकं ५ अन्तरायपञ्चकं ५ चक्षुरादिदर्शनचतुष्कं ४ एतासां चतुर्दशप्रकृतीनां अन्तर्मुहूर्त्तकाल : जघन्य स्थितिबन्ध: । तथा सूक्ष्मसाम्पराये यशस्कीर्त्तिच्युरुच्चगोत्रयोरष्टौ मुहूर्त्ता जघन्यस्थितिबन्धः सातावेदनीयस्य जघन्य स्थितिबन्धः द्वादश मुहूर्त्ताः ।। १३६ ।।
गा० १३७ -नर-तिर्यगायुषोर्जघन्य स्थितिबन्धोऽन्तर्मुहूर्त्तो भवति, सुर-नारकायुषोः दशसहस्रवर्षाणि ॥१३७॥
गा० १३८–उक्ताभ्यः २९ शेषप्रकृतीनां ११ मध्ये जघन्यस्थिति बादरैकेन्द्रियपर्याप्तः तद्योग्यविशुद्ध एव बध्नाति नेत्यर्थः ।। १३८ ।।
Jain Education International.
वैक्रियिकषट्क- मिथ्यात्वरहितानां ८४ स्व-स्वोत्कृष्ट प्रतिभागेन त्रैराशिक विधाने
For Personal & Private Use Only
www.jainelibrary.org