Book Title: Karmprakruti
Author(s): Hiralal Shastri
Publisher: Bharatiya Gyanpith

Previous | Next

Page 131
________________ कर्मप्रकृतिः गा० १२८ - सुर-नरकायुषोः श्रोधः त्रयस्त्रिंशत्सागरोपमाणि । तिर्यङ्मनुध्यायुषोः त्रीणि पल्योपमानि । श्रयमुत्कृष्टस्थितिबन्धः संज्ञिपर्याप्तस्यैव, असंज्ञयन्तानामग्रे प्ररूपणात् । योग्ये इत्यनेन अयं संसारकारणत्वादशुभत्वात् शुभाशुभकर्मणां चातुर्गतिकसंक्लिष्टरेव बध्यत इत्यर्थः ।। १२८ ।। गा० १२६–आयुस्त्रयवर्जितशुभाशुभप्रकृतीनां उत्कृष्टस्थितिकारणं संक्लेश एवेत्याह- तु पुनः तिर्यङ्-मनुष्य-देवायुर्वर्जितसर्वप्रकृतिस्थितीनां उत्कृष्टस्थितिबन्ध उत्कृष्टसंक्लेशेन भवति । तु पुनः तासां जघन्यस्थितिबन्ध उत्कृष्टविशुद्धिपरिणामेन भवति । तत्त्रयस्य तु उत्कृष्टं उत्कृष्टविशुद्धिपरिणामेन जघन्यः तद्विपरीतेन भवति ।। १२९ ।। गा० १३० – आहारकद्विकं तीर्थं देवायुश्चेति चत्वारि मुक्त्वा ११६ प्रकृति सर्वोत्कृष्ट स्थितीनां मिथ्यादृष्टिरेव बन्धको भणितः । तच्चतुर्णां तु सम्यग्दृष्टिरेव ॥ १३१ ॥ तत्रापि विशेषमाह गा० १३१ – देवायुः उत्कृष्टस्थितिकं प्रमत्त एवाप्रमत्तगुणस्थानाभिमुखो बध्नाति; अप्रमत्ते तद्व्युच्छित्तावपि तत्र सातिशये तीव्रविशुद्धत्वेन तदबन्धात् निरतिशये च तदुत्कृष्टासम्भवात् । तु पुनः आहारकद्वयं उत्कृष्टस्थितिकं अप्रमत्तः प्रमत्तगुणस्थानाभिमुखः संकिष्ट एवं बध्नाति, आयुस्वयवर्जितानां उत्कृष्टस्थितेः उत्कृष्टसंक्रेशेन इत्युक्तत्वात् । तीर्थंकरं उत्कृष्टस्थितिकं नरकगतिगमनाभिमुख मनुष्यासंयतसम्यग्दृष्टिरेव बध्नाति ।। १३१|| शेषाणां ११६ उत्कृष्टस्थितिबन्धकमिथ्यादृष्टीनां गाथाद्वयेनाह - गा० १३२-१३३ – नरक-तिर्यङ- मनुष्यायूंषि वैक्रियिकषट्कं विकलत्रयं सूक्ष्मत्रयं चोत्कृष्टस्थितिकानि नराः तिर्यञ्चश्च बध्नन्ति औदारिकद्वयं तिर्यग्योद्योतासम्प्राप्ता सृपाटिकसंहननानि सुर-नारका एव एकेन्द्रियातपस्थावराणि पुनः देवाः, शेषद्वानवतिं उत्कृष्टसंक्लिष्टा ईषन्मध्यम संक्लिष्टाश्च चातुर्गतिकाः । उक्कस्सट्ठिदिबंधपाओग्गअसंखेज्जलोगपरिणामाणं पलिदोवमस्स असंखेजभागमेत्ताणि खंडाणि काढूण तत्थ चरमखंडस्स उक्वस्ससंकिलेसो णाम, पढमखंडस्स ईसिसंकिलेसो णाम, दोन्हं विच्चालखंडाणं मज्झिमसंकिलेसो णामेत्ति उच्चदि ।। १३२-१३३।। गा० १३४ – जघन्यस्थितिबन्धो वेदनीये द्वादश मुहूर्त्ताः, नाम- गोत्रपौरष्टौ शेषपञ्चानां तु पुनः एकैोऽन्तर्मुहूर्त्तः ।। १३४।। गा० १३५ – लोभस्य सूक्ष्मसाम्परायबन्धसप्तदशानां च जघन्य स्थितिबन्धः मूलप्रकृतिवद् भवति, tata द्वौ मासौ, मानस्य एकमासः, मायाया अर्धमासः, पुंवेदस्य अष्टवर्षाणि ।। १३५ ।। गा० १३६— तीर्थंकराहारकद्विकयोरन्तःकोटी कोटिसागरोपमाणि । अयं जघन्यस्थितिबन्धः सर्वोऽपि क्षपकेषु स्व-स्वबन्धव्युच्छित्तिकाले एव नियमाद् भवति । तद्यथा - आसां तीर्थकराहारक शरीराहारकाङ्गोपाङ्गानां बन्धविच्छित्तिस्थानं श्रष्टमगुणस्थानकषष्ठमभागः, तत्र जघन्य स्थितिबन्धः । दशम गुणस्थाने लोमस्य जघन्यस्थितिबन्धः अन्तर्मुहूर्त्तकाल: । सूक्ष्मसाम्पराये ज्ञानावरणपञ्चकं ५ अन्तरायपञ्चकं ५ चक्षुरादिदर्शनचतुष्कं ४ एतासां चतुर्दशप्रकृतीनां अन्तर्मुहूर्त्तकाल : जघन्य स्थितिबन्ध: । तथा सूक्ष्मसाम्पराये यशस्कीर्त्तिच्युरुच्चगोत्रयोरष्टौ मुहूर्त्ता जघन्यस्थितिबन्धः सातावेदनीयस्य जघन्य स्थितिबन्धः द्वादश मुहूर्त्ताः ।। १३६ ।। गा० १३७ -नर-तिर्यगायुषोर्जघन्य स्थितिबन्धोऽन्तर्मुहूर्त्तो भवति, सुर-नारकायुषोः दशसहस्रवर्षाणि ॥१३७॥ गा० १३८–उक्ताभ्यः २९ शेषप्रकृतीनां ११ मध्ये जघन्यस्थिति बादरैकेन्द्रियपर्याप्तः तद्योग्यविशुद्ध एव बध्नाति नेत्यर्थः ।। १३८ ।। Jain Education International. वैक्रियिकषट्क- मिथ्यात्वरहितानां ८४ स्व-स्वोत्कृष्ट प्रतिभागेन त्रैराशिक विधाने For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198