Book Title: Karmprakruti
Author(s): Hiralal Shastri
Publisher: Bharatiya Gyanpith
________________
स्थितिबन्धः
गा० ११५-अनन्तानुबन्धिनः सम्यक्त्वं घातयन्ति, अप्रत्याख्यानकषायाः देशचारित्रं घातयन्ति, प्रत्याख्यानकषायाः सकलचारित्रं घातयन्ति, संज्वलनकषाया यथाख्यातचारित्रं घातयन्ति, तेन गुणनामानो भवन्ति । अनन्तसंसारकारणत्वात् मिथ्यात्वमनन्तं तद् बध्नन्तीत्यनन्तानुबन्धिनः । अप्रत्याख्यानं ईषत्संयमः, तं कषन्तीति अप्रत्याख्यानकषायाः। प्रत्याख्यान सकलसंयमः, तं कषन्तीति प्रत्याख्यानकषायाः। सम् एकीभूय ज्वलन्ति संयमेन सहावस्थानात , संयमो वा ज्वलत्येषु सत्स्वपीति संज्वलनाः. त एव यथाख्यातं कषन्तीति संज्वलनकषायाः । एवं शेषनोकषायज्ञानावरणादीन्यप्यन्वर्थसंज्ञानि भवन्ति।११५॥
गा० ११६-उदयाभावेऽपि तत्संस्कारकालो वासनाकालः । स च संज्वलनानामन्तर्मुहूर्तः प्रत्या ख्यानावरणानामेकपक्षः, अप्रत्याख्यानावरणानां षण्मासाः, अनन्तानुबन्धिनां संग्ख्यातमवोऽसंख्यातभवोऽअनन्तभवो वा भवति नियमेन ।।११६॥
गा० ११७-देहादि-स्पशान्ताः ५० पञ्चशरीर-पञ्चबन्धन-पञ्चसंघात-पटसंस्थान-ध्यङ्गोपाङ्गषट्संहनन-पञ्चवर्ण-द्विगन्ध-पञ्चरस-स्पर्शाष्टकमिति पञ्चाशत् , निर्माणं आतपोद्योती स्थिरास्थिर-शुभाशुभप्रत्येकसाधारणानि अगुरुलघुपघातपरघाताश्चेति द्वाषष्टिः पुद्गलविपाकीनि भवन्ति; पुद्गले एव एषां विपाकित्वात् ॥११७॥
गा० ११८–चत्वारि श्रायूंषि भवविपाकीनि, चतस्रः आनुपूर्व्यः क्षेत्रविपाकिन्यः, भवशिष्टाः अष्टसप्ततिः जीवविपाकिन्यः; नरकादि जीवपर्यायनिर्वर्तनहेतुत्वात् ॥११८॥
. गा० ११६-वेदनीयद्वयं गोत्रद्वयं घातिसप्तचत्वारिंशत् नामसप्तविंशतिश्चेति अष्टसप्ततिजीवविपाकिन्यः प्रकृतयः ॥११९॥
गा०१२०-तीर्थङ्करं उच्छ्वासः बादर-सूक्ष्म-पर्याप्तापर्याप्त-सुस्वरदुःस्वरादेयानादेय-यशःकीर्त्ययशःकीत्ति-सस्थावर-प्रशस्ताप्रशस्तविहायोगति-सुमग-दुर्भग-चतुर्गतयः पञ्च जातयश्चेति सप्तविंशतिः नामप्रकृतयः जीवविपाकिन्यः ॥१२०॥
गा० १२१-चतुर्गतयः पञ्चजातयः उच्छवासः विहायोगति-त्रस-बादर-पर्याप्तयुगलानि सुभगसुस्वरादेय-यशःकीर्त्तियुगलानि तीर्थकरं चेत्यथवानामसप्तविंशतिः ॥१२१॥
गा०१२२-उत्कृष्टः स्थितिबन्धः कोटीकोटिसागरोपमाणि ज्ञान-दर्शनावरणान्तरायवेदनीयेषु त्रिंशत् । नाम-गोत्रयोः विंशतिः । मोहनीये सप्ततिः। आयुषि शुद्धानि कोटीकोटिविशेषणरहितानि सागरोपमाण्येव त्रयस्त्रिंशत् । अत्र शुद्धविशेषणं कोटीकोटिव्यवच्छेदार्थम् ॥१२॥
गा० १२३-उत्कृष्टस्थितिबन्धः असातवेदनीय-ज्ञान-दर्शनावरणान्तरायविंशतः ओघः मूलप्रकृतिवत्-त्रिंशत्कोटीकोटिसागरोपमाणि । सातावेदनीय-स्त्रीवेद-मनुष्यद्विकेषु तदर्धम्-पञ्चदशकोटीकोटिसागरोपमाणि । दर्शनमोहे-मिथ्यात्वे बन्धे एकविधत्वात् तत्र सप्ततिकोटीकोटिसागरोपमाणि । चारित्रमोहनीयषोडशकषायेषु चत्वारिंशत्कोटीकोटिसागरोपमाणि ॥१२३॥ . गा० १२४-संस्थान-संहनानां चरमसंस्थान-संहननस्य मूलप्रकृतिवद् विंशतिकोटीकोटिसागरोपमाणि। शेषसंस्थान-संहननानां समचतुरस्रसंस्थान-वज्रवृषभनाराचसंहननपर्यन्तं द्वि-द्विकोटिसागरोपमविहीन ओघः। विकलत्रयाणां सूक्ष्मत्रयाणां च चाष्टादशकोटीकोटिसागरोपमाणि ॥१२४॥ .. गा० १२५-१२६-अरति-शोक-षण्ढवेद-तिर्यग्द्विक-भयद्विक-नरकद्विक-तैजसद्विकौदारिकद्विक-वैक्रियिकद्विकातपद्विक-नीचैर्गोत्र-त्रसचतुष्क-वर्णचतुष्का-गुरुलघुचतुष्केकेन्द्रिय-पञ्चेन्द्रिय-स्थावर-निर्माणासद्गमनास्थिरषटकानां विंशतिकोटीकोटिसागरोपमाणि ॥१२५॥
गा० १२७ -हास्य-रत्युच्चैर्गोत्र-पुंवेद-स्थिरषटक-प्रशस्तगमन-देवद्विकानां तस्या दशकोटीकोहिसागरोपमाणि । आहारकद्वय-तीर्थकृतोः अन्त:कोटीकोटिसागरोपमाणि ॥१२७।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198