Book Title: Karmprakruti
Author(s): Hiralal Shastri
Publisher: Bharatiya Gyanpith

Previous | Next

Page 125
________________ कर्मप्रकृतिः गा०४५-परमाण्वादि द्रव्यं अन्तिमस्कन्धं त्रैलोक्यस्कन्ध [पर्यन्तं ] इति भूर्तिद्रव्याण, तानि यत्प्रत्यक्षं पश्यति, तदवधिदर्शन मिति । अवधिदर्शनमावृणोतीति अवधिदर्शनावरणीयम् ॥४॥ - गा०४६-बहुविध-बहुप्रकाराः उद्योताः चन्द्रसूर्याग्निरत्रप्रमुखाः परिमिते क्षेत्रे सार्धद्वयद्वीपे [ भवन्ति । यः केवलदर्शनोद्योतः स लोकालोकवितिमिरः। केवलदर्शनमावृणोतीति केवलदर्शनावरणीयम् ॥४६॥ ., गा०४७-एतेषां चक्षुरचक्षुरवधिकेवलालोकानां प्रावरणं दर्शनावरणीयं कर्म । इतः पञ्चनिद्रादर्शनावरणं प्रमणिष्यामः ॥४७॥ गा०४८-अथ स्त्यानगृद्धिः १ निद्रानिद्रा २ तथैव प्रचलाप्रचला ३ निद्रा ४ प्रचला ५ च । एवं नवभेदं दर्शनावरणीयम् ॥४८॥ __गा०४६-स्त्यानगृद्धिनिद्रोदयेन उत्थापिते सत्यपि स्वपिति, कर्म करोति, जल्पति च । निद्रानिद्रोदयेन दृष्टिमुद्घाटयितुं न शक्नोति ॥४॥ गा०५०-प्रचलाप्रचलोदयेन [ मुखात् ] लाला वहन्ति, अङ्गानि चलन्ति । निद्रोदये सति गच्छन् सन् तिष्ठति । पुनः उपविशति, पतति च ॥५०॥ ___ गा०५१-प्रचलोदयेन च जीवः ईषन्नेत्रे मीलयिस्वा ( उन्मील्य ) स्वपिति, सुप्तः सन् ईषदीषजानाति, मुहुर्मुहुः मन्दं मन्दं स्वपिति ॥५१॥ .. गा० ५२-द्विविधं स्फुटं वेदनीयं सातमसातं वेदनीयमिति । पुनः द्विविकल्पं मोहं दर्शनमोहं चारित्रमोह मिति ॥५२॥ गा०५३-बन्धादेकं मिथ्यात्वम् , उदयं सत्तां प्रतीत्य आश्रित्य त्रिविधं स्फुटं दर्शनमोहं मिथ्यात्वं मिश्रं सम्यग्मिथ्यात्वं सम्यक्त्वप्रकृतिः इति त्वं जानीहि ॥५३॥ गा०५४--यन्त्रेण कोद्रवः त्रिधा भवति प्रथमोपशमसम्यक्त्वभावयन्त्रेण मिथ्यात्वद्रव्यं त्रिधा भवति । कीदृशं मिथ्यात्वद्गव्यं द्रव्यकर्मणः असंख्यातगुणहीनम् । मिथ्यास्वादसंख्यातगुणहीनं सम्यग्मिध्यात्वं भवति, सम्यग्मिथ्यात्वादसंख्यातगुणहीनं सम्यक्त्वप्रकृतिमिथ्यात्वं भवति ॥५४॥ . गा०५५-द्विविधं चारित्रमोहं कषायवेदनीयं नोकषायवेदनीयं चेति द्विविधम् । प्रथमं षोडशविकल्पम् , द्वितीयं नवभेदं उद्दिष्टं कथितम् ॥५५॥ गा०५६-अनन्तानुबन्धी अप्रत्याख्यानं प्रत्याख्यानं तथैव संज्वलनं क्रोधः मानः कापव्यं लोमः षोडश कषाया एते ॥५६॥ गा०५७-शिला-पृथिवीभेद-धूलि-जलराजिरेखासमानः क्रोधः बारकतिर्यङ्-मनुष्यामरगतिषु क्रमशः क्रमेण उत्पादकः ॥५॥ गा०५८-शिलाऽस्थि काष्ठ वेत्ररूपनिजभेदेन अनुहरन् अनुसरन् मानः नारक-तिर्यङ्-मनुष्य-देवगतिषु क्रमशः उत्पादकः ॥५८॥ गा०५६-वेणुमूल-वंशमूल-उरभ्रशृङ्ग गोमूत्र-क्षुरप्रसदृशी माया नारक तिर्यङ्-नरामरगतिषु जीवं क्षिपति ॥५९॥ गा०६०-कृमिराग-चक्रमल-तनुमल-हरिद्रारागेन सदृशः लोमः नारक-तिर्यङ-मनुष्य-देवेषु क्रमशः उत्पादकः ॥६॥ गा०६१-सम्यक्त्वं घातयति अनन्तानुबन्धी, अप्रत्याख्यानं देशव्रतं घातयति, प्रत्याख्यानं महाव्रतं घातयति, संज्वलनं यथाख्यातचारित्रं घातयति । कषायाश्चत्वारः षोडश असंख्यात-लोक-परिमाणाः सन्ति ॥६१॥ - गा०६२-हास्य अरतिः शोकः मयं जुगुप्सा घृणा स्त्रीवेदः पुंवेदः तथा षण्ढवेदः एते नव नोकषाया ईषत्कषायाः ॥६२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198