________________
कर्मप्रकृतिः गा०४५-परमाण्वादि द्रव्यं अन्तिमस्कन्धं त्रैलोक्यस्कन्ध [पर्यन्तं ] इति भूर्तिद्रव्याण, तानि यत्प्रत्यक्षं पश्यति, तदवधिदर्शन मिति । अवधिदर्शनमावृणोतीति अवधिदर्शनावरणीयम् ॥४॥ - गा०४६-बहुविध-बहुप्रकाराः उद्योताः चन्द्रसूर्याग्निरत्रप्रमुखाः परिमिते क्षेत्रे सार्धद्वयद्वीपे [ भवन्ति । यः केवलदर्शनोद्योतः स लोकालोकवितिमिरः। केवलदर्शनमावृणोतीति केवलदर्शनावरणीयम् ॥४६॥ ., गा०४७-एतेषां चक्षुरचक्षुरवधिकेवलालोकानां प्रावरणं दर्शनावरणीयं कर्म । इतः पञ्चनिद्रादर्शनावरणं प्रमणिष्यामः ॥४७॥
गा०४८-अथ स्त्यानगृद्धिः १ निद्रानिद्रा २ तथैव प्रचलाप्रचला ३ निद्रा ४ प्रचला ५ च । एवं नवभेदं दर्शनावरणीयम् ॥४८॥
__गा०४६-स्त्यानगृद्धिनिद्रोदयेन उत्थापिते सत्यपि स्वपिति, कर्म करोति, जल्पति च । निद्रानिद्रोदयेन दृष्टिमुद्घाटयितुं न शक्नोति ॥४॥
गा०५०-प्रचलाप्रचलोदयेन [ मुखात् ] लाला वहन्ति, अङ्गानि चलन्ति । निद्रोदये सति गच्छन् सन् तिष्ठति । पुनः उपविशति, पतति च ॥५०॥ ___ गा०५१-प्रचलोदयेन च जीवः ईषन्नेत्रे मीलयिस्वा ( उन्मील्य ) स्वपिति, सुप्तः सन् ईषदीषजानाति, मुहुर्मुहुः मन्दं मन्दं स्वपिति ॥५१॥
.. गा० ५२-द्विविधं स्फुटं वेदनीयं सातमसातं वेदनीयमिति । पुनः द्विविकल्पं मोहं दर्शनमोहं चारित्रमोह मिति ॥५२॥
गा०५३-बन्धादेकं मिथ्यात्वम् , उदयं सत्तां प्रतीत्य आश्रित्य त्रिविधं स्फुटं दर्शनमोहं मिथ्यात्वं मिश्रं सम्यग्मिथ्यात्वं सम्यक्त्वप्रकृतिः इति त्वं जानीहि ॥५३॥
गा०५४--यन्त्रेण कोद्रवः त्रिधा भवति प्रथमोपशमसम्यक्त्वभावयन्त्रेण मिथ्यात्वद्रव्यं त्रिधा भवति । कीदृशं मिथ्यात्वद्गव्यं द्रव्यकर्मणः असंख्यातगुणहीनम् । मिथ्यास्वादसंख्यातगुणहीनं सम्यग्मिध्यात्वं भवति, सम्यग्मिथ्यात्वादसंख्यातगुणहीनं सम्यक्त्वप्रकृतिमिथ्यात्वं भवति ॥५४॥
. गा०५५-द्विविधं चारित्रमोहं कषायवेदनीयं नोकषायवेदनीयं चेति द्विविधम् । प्रथमं षोडशविकल्पम् , द्वितीयं नवभेदं उद्दिष्टं कथितम् ॥५५॥
गा०५६-अनन्तानुबन्धी अप्रत्याख्यानं प्रत्याख्यानं तथैव संज्वलनं क्रोधः मानः कापव्यं लोमः षोडश कषाया एते ॥५६॥
गा०५७-शिला-पृथिवीभेद-धूलि-जलराजिरेखासमानः क्रोधः बारकतिर्यङ्-मनुष्यामरगतिषु क्रमशः क्रमेण उत्पादकः ॥५॥
गा०५८-शिलाऽस्थि काष्ठ वेत्ररूपनिजभेदेन अनुहरन् अनुसरन् मानः नारक-तिर्यङ्-मनुष्य-देवगतिषु क्रमशः उत्पादकः ॥५८॥
गा०५६-वेणुमूल-वंशमूल-उरभ्रशृङ्ग गोमूत्र-क्षुरप्रसदृशी माया नारक तिर्यङ्-नरामरगतिषु जीवं क्षिपति ॥५९॥
गा०६०-कृमिराग-चक्रमल-तनुमल-हरिद्रारागेन सदृशः लोमः नारक-तिर्यङ-मनुष्य-देवेषु क्रमशः उत्पादकः ॥६॥
गा०६१-सम्यक्त्वं घातयति अनन्तानुबन्धी, अप्रत्याख्यानं देशव्रतं घातयति, प्रत्याख्यानं महाव्रतं घातयति, संज्वलनं यथाख्यातचारित्रं घातयति । कषायाश्चत्वारः षोडश असंख्यात-लोक-परिमाणाः सन्ति ॥६१॥ - गा०६२-हास्य अरतिः शोकः मयं जुगुप्सा घृणा स्त्रीवेदः पुंवेदः तथा षण्ढवेदः एते नव नोकषाया ईषत्कषायाः ॥६२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org