Book Title: Karmprakruti
Author(s): Hiralal Shastri
Publisher: Bharatiya Gyanpith
________________
मत अनिःसृत
द्रियैः मनसा
प्रकृतिसमुत्कोत्तनम गा० ३२ -आयुःकर्म चतुःप्रकारम् । किं लक्षणं आयुःकर्म ? नारकश्च तिर्यक् मनुष्यश्च सुरश्च ये तेषां गतिर्गमन पर्यायदायकम् । गम्यते यया सा गतिः, तस्याः गम्यं रोचनं (?) नारक-तिर्यङ्-मनुष्यसुरगतिगं प्राप्तम् । कीदृशं आयुः ? हडिक्षिप्तपुरुषसदृशम् । पुनः कीदृशम् ? जीवानां भवधारणे समर्थ भवति ॥३२॥ - गा०३३-नाभकर्म गति-जाति-शरीरादिकं त्रिनवतिसंख्यागणितम् । पुनस्तत् किम्भूतं नाम ? चित्रावत् विचित्रं भवति । पुनः किम्भूतं नामकर्म ? नानानामनि-[वर्तकं ] उत्पादकं भवति ॥३३॥
___ गा० ३४-गोत्रकर्म कुलालसदृशं कुम्भकारतुल्यं वर्तते । कीदृशम् ? नीचोच्चकुलेषु उत्पादने दक्षं प्रवीणम् । घटरजनादिकरणे यथा कुम्भकारो निपुणः ॥३४॥
गा०३५-यथा भाण्डागारिकः पुरुषः राजदत्तं धनं निवारयति, तथा अन्तरायपञ्च लम्धीनां निवारकं भवति ॥३॥
गा० ३६-पञ्च नव द्वौ अष्टविंशतिः चत्वारि कर्माणि अनुक्रमेण विनवतिः व्युत्तरशतं वा द्वे पक उत्तरप्रकृतयो भवन्ति ॥३६॥ .
गा०३७-आभिमुख-नियमितबोधनं आमिनिबोधकं भवति तत् अनिन्द्रियजं इन्द्रियज बह्वादिअवग्रहादिककृतषट्त्रिंशद्-भेदम् । किंभूतं आमिनिबोधकमतिज्ञानम् ? अनिन्द्रियजं [ मनोनिष्पन्नं ] इन्द्रियजं पञ्चस्पर्शनादिकोत्पन्नम् । अवग्रहादिभेदाश्चत्वारः। अवग्रहः वस्तुदर्शनम् । ईहा तद्वस्तुज्ञातुमिच्छा। अवायः तद्वस्तुनिश्चयः । धारणा तद्वस्तुनः पुनरविस्मरणम् । एते भेदाः बहु १ अबहु २ बहुविध ३ अबहुविध ४ क्षिप्र ५ अभिप्र ६ निःसृत ७ अनिःसृत ८ उक्त ९ अनुक्त १० ध्रुव ११ अध्रुव १२ एतैः द्वादशमिः भेदः गुण्यन्ते, तदा ४८ भेदा भवन्ति । पुनरेते भेदा पञ्चेन्द्रियैः मनसा च गुण्यन्ते, तदा अर्थावग्रहस्य २८८ भेदा भवन्ति । व्यञ्जनावग्रहस्य भवन्ति चार्मनोभेदरहितचतुरिन्द्रियैर्गुणिताः ४८ भेदा भवन्ति । एवं (२८८+ ४८ = ) ३३६ भेदाः मतिज्ञानस्य भवन्ति । मतिज्ञानमावृणोतीति मतिज्ञानावरणीयम् ॥३७॥
गा० ३८-अर्थादर्थान्तरं येन उपलभ्यते तदाऽऽचार्याः श्रतज्ञानं कथयन्ति । कीदृशं श्रुतज्ञानम् ? आमिनिबोधकपूर्व श्रुतज्ञानं नियमेन शास्त्रप्रमुखं प्रधानम् । श्रुतज्ञानमावृणोतीति श्रुतज्ञानावरणीयम् ॥३०॥
''गा०३६-अवधीयते मर्यादोक्रियते इति अवधिः, सीमाज्ञानमिति वणितं समये सिद्धान्ते । एको भवप्रत्ययोऽवधिः, एकश्च गुणप्रत्ययः, इत्येतदिविधमवधिज्ञानं यदवधिज्ञा इदं ब्रुवन्ति कथयन्ति । । अवधिज्ञानमावृणोतीति अवधिज्ञानावरणीयम् ॥३९।। . गा० ४०-चिन्तितं अचिन्तितं वा अर्ध चिन्तितं वा अनेकभेदगतं [ परमनसि स्थितमर्थ ] यजानाति, तन्मनःपर्यय इति ज्ञानमुच्यते । तत्स्फुटं नरलोके मनुष्यक्षेत्रे सार्धद्वयद्वीपे एव [ भवति ] न तत्परमिति । मनःपर्यज्ञानमावृणोतीति मनःपर्यययज्ञानावरणीयम् ॥४०॥ ..गा०४१-पम्पूर्ण पुनः समग्रं केवलं असपत्नं शत्ररहितं सर्वभावगतं लोकालोके वितिमिरं प्रकाशकं केवलज्ञानं मुणेयध्वं ज्ञातव्यम् । केवलज्ञानमावृणोतीति केवलज्ञानावरणीयम् ॥४१॥
गा०४२-प्रति-श्रावधि-मनःपर्यय-केवलज्ञानानि, एतेषां आवरणं मतिज्ञानावरणीयं १ श्रुतज्ञानावरणीयं २ अवधिज्ञानावरणीयं ३ मनःपर्ययज्ञानावरणीयं ४ केवलज्ञानावरणीयं ५ इति पञ्चविकल्प पञ्चप्रकारं ज्ञानावरणीयं कर्म जिनभणितं हे शिष्य, त्वं जानीहि ॥४२॥
गा०४३-भावानामाकारं नैव कृत्वा अर्थान् पदार्थान् अविशेषयित्वा यत्सामान्यं ग्रहणं तत् समये सिद्धान्ते दर्शन मिति भण्यते ॥४३॥
गा०४४-चक्षुषा नेत्रेण यत् प्रकाश्यते दृश्यते, तच्चक्षुदर्शनं ब्रुवन्ति । शेषेन्द्रियाणां स्पर्शनादीनां प्रकाशः, स अवक्षुदर्शन मिति ज्ञातव्यः । चक्षुदर्शनमावृणोतीति चक्षुर्दर्शनावरणीयम् । अचक्षदर्शनमावृणोतीति अचक्षुर्दर्शनावरणीयम् ॥४४॥
१८ भेदा
१०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198