Book Title: Karmprakruti
Author(s): Hiralal Shastri
Publisher: Bharatiya Gyanpith

Previous | Next

Page 122
________________ प्रकृतिसमुत्कीर्तनम् याः क्षेत्रविपाकिन्यस्ताः वर्यानुपूर्वगतेः [ चतस्रः अानुपूर्व्यः गतेः ] सकाशात् अन्यत्र गत्यर्थाः । जीवपुद्गल-[भव-] क्षेत्रविपाकिनामिति कथितम् ॥१२॥ गा०१३-सन्तानक्रमेण अनुक्रमेण परम्पराक्रमेण श्रागतजीवस्याचरणं गोत्रमिति सण्णा संज्ञा स्यात् । यत्र उच्चं चरणं भवेत्, तत्र उच्च गोत्रम् ; यत्र नीचं च भवति [ तन्नीचगोत्रम् ] ॥१३॥ गा०१४-अक्षाणां इन्द्रियाणां यदनुभवनं' अनुभूति: तद्वेदनीयम् । यदिन्द्रियाणां सुखस्वरूपं तत्सातम्, यदुःखस्वरूपं तदसातम् । तत् सुख-दुःखं वेदयतीति वेदनीयम् । गा०१५-अयं संसारी जीवः अर्थ पदार्थं पूर्व दृष्ट्वा जानाति, पश्चात्, सप्तभङ्गीभिः वाणीभिः श्रद्दधाति, इत्यनेन प्रकारेण दर्शनं ज्ञानं सम्यक्त्वं च [जीव गुणाः भवन्ति । चशब्दात् वीर्यमपि गृह्यते । स्यादस्ति १ स्यान्नास्ति २ स्यादस्तिनास्ति ३ स्यादवक्तव्यं ४ स्यादस्ति-अवक्तव्यं ५ स्यानास्ति-अवक्तव्यं ६ स्यादस्ति-नास्ति-अवक्तव्यं ७ इति सप्तभङ्गी वाणी भगवत: ॥१५॥ गा०१६-खु स्फुटं सप्तमङ्गं द्रव्यं सम्भवति । केन ? आदेशवशेन पूर्वसूरिकथनवशेन । ते सप्तभङ्गाः के इति चेदुच्यते-स्याच्छब्दः प्रत्येकं अभिसंबध्यते-स्यादस्ति १ स्यानास्ति २ स्यादस्तिनास्ति ३ स्यादवक्तव्यं ४ स्यादस्ति श्रवक्तव्यं ५ स्यानास्ति-अवक्तव्यं ६ स्यादस्ति-नास्त्यवक्तव्यम् ७ एते सप्त भङ्गाः ज्ञातव्याः । स्यात्कथंचित्प्रकारेण विवक्षितप्रकारेण स्वद्रव्यादिचतुष्टयापेक्षया द्रव्यमस्ति । स्यानास्ति-स्यात्कथंचित्प्रकारेण परद्रव्यादिचतुष्टयापेक्षया नास्त्यर्थः २। स्यादस्तिनास्ति-स्यात्कथञ्चिद विवक्षितप्रकारेण क्रमेण स्वपरद्रव्यादिचतुष्टयापेक्षया द्रव्यमस्तिनास्तीत्यर्थः ३ । स्यादवक्तव्यम्-स्यात्कथञ्चिद् विवक्षितप्रकारेण युगपद् वक्तमशक्यत्वात् 'क्रमप्रवर्तिनी भारती' इति वचनाद् युगपत् स्व-परद्रव्यादि. चतुष्टयापेक्षया द्रव्यमवक्तव्यमित्यर्थः ४ । स्यादस्त्यवक्तव्यम् -स्यात्कथञ्चिद्विवक्षितप्रकारेण [ स्वद्रव्यादिचतुष्टयापेक्षया ] जीवोऽस्तीति अवक्तव्यं द्रव्यापेक्षया इति ५ । स्यान्नास्त्यवक्तव्यम् -स्यात्कथञ्चिद्विवक्षितप्रकारेण परद्रव्यादिचतुष्टयापेक्षया युगपत् स्व-परद्रव्यादिचतुष्टयापेक्षया वा द्रव्यं नास्त्यवक्तव्यम् ६ । स्यादस्तिनास्त्यवक्तव्यम्-स्यात्कथञ्चिद्विवक्षितप्रकारेण क्रमेण स्व परद्रव्यादिचतुष्टयापेक्षया युगपदव्यमस्ति नास्त्यवक्तव्यमित्यर्थः ७ । ॥१६॥ ___. 'गा०१७-अभ्यर्हित्वात् पूज्यत्वात् पूर्व ज्ञानं भणितम् । ततो दर्शनं भवति, अतः सम्यक्त्वं भवति । वीर्यन्तु जीवाजीवेषु प्राप्तमिति हेतोः चरमे अन्ते पठितम् ॥१७॥ गा० १८-[घात्यपि अन्तरायकर्म [अ.] घातिवद् ज्ञातव्यम् । कुतः ? निःशेषजीवगुणघातने अशक्यत्वात्, नाम-गोत्र-वेदनीय-निमित्तात् नाम-गोत्र-वेदनीयान्येव निमित्तं कारणं यस्य अन्तरायस्य; तस्मादधातिनां चरमे अन्ते पठितम् ॥१८॥ गा०१६-भवस्य संसारस्य आयुःकर्मबलेन स्थितिः भवति, नामकर्म आयुःपूर्वकं भवति । आयु:कर्मपूर्वस्य नामकर्मणः । तत् पुनः गतिलक्षणभवं प्राश्रित्य नीचत्वं उच्चत्वं च गोत्रकर्मणः नामकर्मपूर्वक कथितं नामकर्म पूर्व यस्य गोत्रस्य तत् ॥१९॥ गा०२०-वेदनीयकर्म [अ- घात्यपि मोहस्य कर्मणः बलेन उदयेन घातिवत् जीवस्य [गुणं ] घातयति पीडयति इति हेतोः कारणात् घातिकर्मणां मध्ये मोहनीयस्यादौ वेदनीयं पठितम् ॥२०॥ गा०२१-अनुक्रमात् पति (पठितम् ) इति पूर्वोक्तप्रकारेण सिद्धं पठितं कथितं वा ॥२१॥ गा०२२-एकस्मिन्नेकस्मिन् जीवप्रदेशे कर्मप्रदेशाः हु स्फुटं अन्तपरिहीना इति अनन्ता भवन्ति । एतेषां श्रात्म-कर्मप्रदेशानां सम्यक [बन्धो सम्बन्धो भवति । किंलक्षणो ज्ञातव्यः ? घननिविडभूतः-घनवत् लोहमुद्गरवन्निविडभूतः दृढतर इत्यर्थः ॥२२॥ १ विषयावबोधनम् । ( गो० क० टी०) Jain Education International For Personal & Private Use Only For Personal & Private Use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198