Book Title: Karmprakruti
Author(s): Hiralal Shastri
Publisher: Bharatiya Gyanpith
________________
कर्मप्रकृति
गा०४-सिद्धानां अनन्तिमभाग 1समयप्रबद्धगणनां बध्नाति, अभव्यसिद्धेभ्यः अनन्तगुणं समयप्रबद्धं बध्नाति । योगवशात् मनोवचनकायात् विसदृशं बध्नाति ।
वर्गः शक्तिसमूहोऽणोरणूनां वर्गणोदिता !
वर्गणानां समूहस्तु स्पर्धकः स्पर्धकापहैः ॥ जीवो योगवशात् मनोवचनकाययोगात् समयप्रबद्धं समयं समयं प्रति बध्यते इति समयप्रबद्धः । [ एवंभूतं ] समयप्रबद्धं गृह्णातीति विशेषः। बंधदि बध्नाति । कीदृशम् ? सिद्धेभ्योऽनन्तिममागं सिद्धराश्यनन्तैकभागम् । पुनः कीदृशम् ? अभव्यसिद्धादनन्तगुणं कर्म नोकर्म बनाति । कीदृशं समयप्रबद्धम् ? विसदृशं नानाप्रकारं अनेकरूपं वा विसदृशं आयुर्वर्जितसप्तानां कर्मणां बन्धम् ॥४॥
गा०५-अस्य जीवस्य समयप्रबद्धः जीर्णाति । [ उ- ] पयोगतः ज्ञानोपयोगतः दर्शनोपयोगतः [प्रयोगतः2.......... .... ......"अनेकसमयप्रबर्द्ध जीर्णाति ] होनो भवति द्वयर्धगुणहानिमात्रसमयप्रबद्धः प्रतिसमयं सत्त्वं भवेत् । एकपल्यस्यासंख्या भागाः क्रियन्ते, तेषां मध्ये एकार्धभागस्य गुणहानिसंज्ञा ज्ञेया (?) ॥४॥
गा०६.-एकसामान्यापेक्षया कर्मत्वेन एक कर्म । तु पुनः तत्कर्म द्विविधम् । पुद्गलानां ज्ञानावरणादीनां पिण्डसमूह;, तत् द्रव्यकर्म । तच्छक्तिः रागादिपरिणामः, तत् भावकर्म ॥६॥
गा०७-तत्कर्म पुनः अष्टविधं वा ८, अष्टचत्वारिंशच्छतं १४८ वा, असंख्यातलोक मात्रं वा । तेषां कर्मणां पुनः घाति इति संज्ञा, अघाति इति संज्ञा भवति । तत्कर्म ज्ञानावरणादिभेदेन अष्टविधं भवति । वा तत्कर्म प्रकृतिभावभेदेन अष्टचत्वारिंशच्छतं भवति । वा तत्कर्म असंख्यातलोकप्रमाणमिति समुच्चयार्थः । तेषां चाष्टविधानां पृथक पृथक घातिरिति, अधातिरिति च द्वे संज्ञे भवतः ॥७॥
गा०८-ज्ञानावरणीयं दर्शनावरणीयं वेदनीयं मोहनीयं [ आयुष्कं नाम गोत्रं ] अन्तरायः [इति] अष्टौ मूलप्रकृतयः ज्ञातव्याः ॥८॥
गा०९-ज्ञानावरणीयं दर्शनावरणीयं मोहनीयं अन्तराय एतानि चत्वारि घातिकर्माणि ज्ञातव्यानि । कस्मात् ? जीवगुणघातनात् । तथा आयुर्नाम गोत्रं वेदनीयमिति अघातिकर्माणि ज्ञातव्यानि ॥६॥
गा०१०-घाति-घातनात् दूरीकरणात् केवलज्ञानं केवलदर्शनं अनन्तवीर्य क्षायिकसम्यक्त्वं चकारात् क्षायिकचारित्रं क्षायिकदान-लाभ-भोगोपभोगाः नव क्षायिकगुणा भवन्ति । मति-श्रुतावधि-मन:पर्ययादय एते क्षायोपशमिकगुणाः। [क्षयात् ] नाशनात् घातिघातनात् [ क्षायिकगुणाः भवन्ति ] । सर्वघातिस्पर्धकानां उदयाभावः क्षयः, तेषां सदवस्था उपशमः, देशवाति स्पर्धकानां उदये सति क्षयोपशमः कथ्यते । [क्षयोपशमेन भवाः क्षायोपशमिकाः । मत्यादयः क्षायोपशमिकगुणाः कथ्यन्ते । ] ॥१०॥
गा०११-आयुःकर्मोदयः कर्मकृते मोहवर्धिते अनादियुक्त एवंभूते संसारे चतुर्गतिपु जीवस्य अवस्थान स्थितिं करोति । किंवत् ? वर-हडिवत् । यथा हलिः छिद्रितकाष्टविशेषः, हलिर्वा निगडः नरं पुरुष अवस्थानं करोति; तथा प्रायुःकर्म जीवस्य संसारे स्थितिकारकं भवतीत्यर्थः । छिद्रवहारुविशेषः हलिरित्युच्यते ॥११॥
गा० १२-एतस्य नामकर्मणः त्रिनवतिप्रकृतयो भवन्ति । इदं तात्पर्यम्-तासु विषयेषु काश्चन प्रकृतयो जीवविपाकिन्यो भवन्ति, काश्चन प्रकृतयः पुद्गलविपाकिन्यः क्षेत्रविपाकिन्यो भवन्ति । चशब्दात् भवविपाकिन्यो भवन्ति । याः जीवविपाकिन्यः प्रकृतयः सन्ति, ताः अनेकप्रकारगत्यादिजीवभेदान् कुर्वन्ति । [याः पुद्गलविपाकिन्यः ] प्रकृतयः सन्ति, ता औदारिकादिशरीर-संस्थान-संहननादिकानेकभेदान् कुर्वन्ति ।
1. समये समय प्रबध्यते इति समयप्रबद्धः । ( गो० क० टी०)। 2. सातिशयक्रियोपेतस्य आत्मनः सम्यक्त्वादिप्रवृत्तिलक्षणप्रयोगेन हेतुना एकादश [स्थानीय-] निर्जराविवक्षया अनेकसमयप्रबद्धो जीर्यते । ( गो० क० टो० ) ३. तथा जीवगुणवातकप्रकारेण न इत्यवातिसंज्ञानि । ( गो० क. टी.)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198