________________
प्रकृतिसमुत्कीर्तनम् याः क्षेत्रविपाकिन्यस्ताः वर्यानुपूर्वगतेः [ चतस्रः अानुपूर्व्यः गतेः ] सकाशात् अन्यत्र गत्यर्थाः । जीवपुद्गल-[भव-] क्षेत्रविपाकिनामिति कथितम् ॥१२॥
गा०१३-सन्तानक्रमेण अनुक्रमेण परम्पराक्रमेण श्रागतजीवस्याचरणं गोत्रमिति सण्णा संज्ञा स्यात् । यत्र उच्चं चरणं भवेत्, तत्र उच्च गोत्रम् ; यत्र नीचं च भवति [ तन्नीचगोत्रम् ] ॥१३॥
गा०१४-अक्षाणां इन्द्रियाणां यदनुभवनं' अनुभूति: तद्वेदनीयम् । यदिन्द्रियाणां सुखस्वरूपं तत्सातम्, यदुःखस्वरूपं तदसातम् । तत् सुख-दुःखं वेदयतीति वेदनीयम् ।
गा०१५-अयं संसारी जीवः अर्थ पदार्थं पूर्व दृष्ट्वा जानाति, पश्चात्, सप्तभङ्गीभिः वाणीभिः श्रद्दधाति, इत्यनेन प्रकारेण दर्शनं ज्ञानं सम्यक्त्वं च [जीव गुणाः भवन्ति । चशब्दात् वीर्यमपि गृह्यते । स्यादस्ति १ स्यान्नास्ति २ स्यादस्तिनास्ति ३ स्यादवक्तव्यं ४ स्यादस्ति-अवक्तव्यं ५ स्यानास्ति-अवक्तव्यं ६ स्यादस्ति-नास्ति-अवक्तव्यं ७ इति सप्तभङ्गी वाणी भगवत: ॥१५॥
गा०१६-खु स्फुटं सप्तमङ्गं द्रव्यं सम्भवति । केन ? आदेशवशेन पूर्वसूरिकथनवशेन । ते सप्तभङ्गाः के इति चेदुच्यते-स्याच्छब्दः प्रत्येकं अभिसंबध्यते-स्यादस्ति १ स्यानास्ति २ स्यादस्तिनास्ति ३ स्यादवक्तव्यं ४ स्यादस्ति श्रवक्तव्यं ५ स्यानास्ति-अवक्तव्यं ६ स्यादस्ति-नास्त्यवक्तव्यम् ७ एते सप्त भङ्गाः ज्ञातव्याः । स्यात्कथंचित्प्रकारेण विवक्षितप्रकारेण स्वद्रव्यादिचतुष्टयापेक्षया द्रव्यमस्ति । स्यानास्ति-स्यात्कथंचित्प्रकारेण परद्रव्यादिचतुष्टयापेक्षया नास्त्यर्थः २। स्यादस्तिनास्ति-स्यात्कथञ्चिद विवक्षितप्रकारेण क्रमेण स्वपरद्रव्यादिचतुष्टयापेक्षया द्रव्यमस्तिनास्तीत्यर्थः ३ । स्यादवक्तव्यम्-स्यात्कथञ्चिद् विवक्षितप्रकारेण युगपद् वक्तमशक्यत्वात् 'क्रमप्रवर्तिनी भारती' इति वचनाद् युगपत् स्व-परद्रव्यादि. चतुष्टयापेक्षया द्रव्यमवक्तव्यमित्यर्थः ४ । स्यादस्त्यवक्तव्यम् -स्यात्कथञ्चिद्विवक्षितप्रकारेण [ स्वद्रव्यादिचतुष्टयापेक्षया ] जीवोऽस्तीति अवक्तव्यं द्रव्यापेक्षया इति ५ । स्यान्नास्त्यवक्तव्यम् -स्यात्कथञ्चिद्विवक्षितप्रकारेण परद्रव्यादिचतुष्टयापेक्षया युगपत् स्व-परद्रव्यादिचतुष्टयापेक्षया वा द्रव्यं नास्त्यवक्तव्यम् ६ । स्यादस्तिनास्त्यवक्तव्यम्-स्यात्कथञ्चिद्विवक्षितप्रकारेण क्रमेण स्व परद्रव्यादिचतुष्टयापेक्षया युगपदव्यमस्ति नास्त्यवक्तव्यमित्यर्थः ७ । ॥१६॥
___. 'गा०१७-अभ्यर्हित्वात् पूज्यत्वात् पूर्व ज्ञानं भणितम् । ततो दर्शनं भवति, अतः सम्यक्त्वं भवति । वीर्यन्तु जीवाजीवेषु प्राप्तमिति हेतोः चरमे अन्ते पठितम् ॥१७॥
गा० १८-[घात्यपि अन्तरायकर्म [अ.] घातिवद् ज्ञातव्यम् । कुतः ? निःशेषजीवगुणघातने अशक्यत्वात्, नाम-गोत्र-वेदनीय-निमित्तात् नाम-गोत्र-वेदनीयान्येव निमित्तं कारणं यस्य अन्तरायस्य; तस्मादधातिनां चरमे अन्ते पठितम् ॥१८॥
गा०१६-भवस्य संसारस्य आयुःकर्मबलेन स्थितिः भवति, नामकर्म आयुःपूर्वकं भवति । आयु:कर्मपूर्वस्य नामकर्मणः । तत् पुनः गतिलक्षणभवं प्राश्रित्य नीचत्वं उच्चत्वं च गोत्रकर्मणः नामकर्मपूर्वक कथितं नामकर्म पूर्व यस्य गोत्रस्य तत् ॥१९॥
गा०२०-वेदनीयकर्म [अ- घात्यपि मोहस्य कर्मणः बलेन उदयेन घातिवत् जीवस्य [गुणं ] घातयति पीडयति इति हेतोः कारणात् घातिकर्मणां मध्ये मोहनीयस्यादौ वेदनीयं पठितम् ॥२०॥
गा०२१-अनुक्रमात् पति (पठितम् ) इति पूर्वोक्तप्रकारेण सिद्धं पठितं कथितं वा ॥२१॥
गा०२२-एकस्मिन्नेकस्मिन् जीवप्रदेशे कर्मप्रदेशाः हु स्फुटं अन्तपरिहीना इति अनन्ता भवन्ति । एतेषां श्रात्म-कर्मप्रदेशानां सम्यक [बन्धो सम्बन्धो भवति । किंलक्षणो ज्ञातव्यः ? घननिविडभूतः-घनवत् लोहमुद्गरवन्निविडभूतः दृढतर इत्यर्थः ॥२२॥
१ विषयावबोधनम् । ( गो० क० टी०)
Jain Education International
For Personal & Private Use Only
For Personal & Private Use only
www.jainelibrary.org