________________
८८
कर्मप्रकृति
गा०२३-जीवस्य विविधकर्मणा सह अनादिभूतः बन्धोऽस्ति । तस्य दव्यकर्मबन्धस्य [उदयेन] पुनः राग-द्वेषमयः भावः परिणामः जायते उत्पद्यते ॥२३॥
गा०२४-पुनरपि तेन राग-द्वेषमयेन भावेन अन्ये बहवः कर्मपुद्गलाः प्रात्मनः लगन्ति बन्धं प्राप्नुवन्ति । यथा घृतलिप्तगात्रस्य निविडा रेणवो लगन्ति', तथा रागद्वेष क्रोधादिपरिणामस्निग्धापलिप्तास्मनः निघट ( निविड) रजवो (रजसः रेणवो वा ) लगन्ति इत्यर्थः ॥ २४॥
गा० २५–'जीवे' इति शेषः । एकसमयेन यत्कर्म [बद्धं]. तत्कर्म आयुकर्म विना ज्ञानावरणीयदर्शनावरणीय वेदनीय-मोहनीय-नाम-गोत्रान्तरायभेदैः सप्तप्रकारैः परिणमनं करोति बन्धं प्राप्नोति । च पुनः यद् बद्धं आयुकर्म तद्भुक्तायुःशेषेण भुज्यमानायुस्त्रिभाग-विभागानुक्रमेण [बन्धं प्राप्नोति । ] ॥२५॥ कर्मभूमितिर्यग्मनुष्यायुर्बन्धविधिः
सुर-णिरया णर-तिरिये छमास [सिट्टगे] सगाउम्स ।
____णर-तिरिया सव्वाउगतिभागसेसे तु कम्मस ॥१॥ संसारसभावाणं जीवाणं जीवियाउ वसुवारं ।
गयदोभाग तिगेकं छप्पणछहइगि-तिभंगदलं । ॥२॥ .. इगिवीससयसत्तासी सत्तसँयेगुणतीस वेसय तेदालं
पुण इक्कासी' कहियं संगवीसं णवं तिण्णिमे गं च ॥३॥
६५६१.३,२१८७३
= ७२६:३%२४३ : ३ = ८१
= २७:३ = ९:३
३
:१।
- अनेनानुक्रमेणायुः कर्म बन्धं याति
गा०२६-स बन्धः सूत्रे अनादिनिधनद्वादशाङ्गवाण्यां निर्दिष्टः सूत्रनिर्दिष्टः भवति । स पूर्वोक्तः कर्मबन्धश्चतुर्भेदो ज्ञातव्यो भवति । स कथम्भूत: ? जिनागमे कथितः। ते चत्वारो भेदाः के ? प्रकृति स्थित्यनुभाग-प्रदेशबन्धाः । अयं भेदः पुरा पूर्वोक्तगाथासु (?) कथितः ।
प्रकृतिः परिणामः स्यात् स्थितिः कालावधारणं । अनुभागो रसो ज्ञेयः प्रदेशो दलसंचयः ॥२६॥ .
गा०२७-पटो वस्त्रम् ! प्रतिहारो द्वारपाल: । असिः खड्गम् । मद्यम् मदिरा हडिः काष्ठविशेषः निगडः । चित्रम् चित्र वस्त्रं वा चित्रकारी पुरुषः कुलालः कुम्भकारः । भाण्डागारी कोष नियुक्त पुमान् । यथा एतेषां भावाः, तथाविधानि कर्माणि ज्ञातव्यानि ॥२७॥
गा०२८-ज्ञानावरणं कर्म सूत्रनिर्दिष्टं पञ्चविधं भवति । दृष्टान्तमाह-यथा प्रतिमाया उपरि क्षिप्तं क्षेपितं प्रतिमोपरि क्षिप्तं कपटकं वस्त्रं आच्छादकं भवति ॥२८॥
गा०२६-पुनः दर्शनावरणं कर्म किंस्वभावम् ? यथा नृपद्वारे प्रतीहारः राजदर्शननिषेधको भवति, तथा दर्शनावरणकर्म वस्तुदर्शननिषेधको भवति । तदर्शनावरणीयं कर्म नवप्रकारं स्फुटार्थवादिभिर्गणधरदेवैः सूत्रे सिद्धान्ते प्रोक्तम् ॥२९॥
गा०३०-पुनः वेदनीयं कर्म द्विविधं भवति । कथम्भूतम् ? मधुलिप्तखड्गसदृशम् । तत्सातासातभेदप्राप्तं सत् जीवस्य सुख-दुःखं ददाति ॥३०॥
गा०३१-मोहनीयकर्म आत्मानं मोहयति, यथा मदिरा पुरुषं मोहयति । [यथा वा मदनकोद्रवा पुरुषं मोहयन्ति । ] तन्मोहनीयं कर्म अष्टाविंशतिभेदेन विभिन्नं जिनोपदेशेन ज्ञातव्यम् ॥३१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org