________________
अज्ञाताचार्य-प्रणीता द्वितीया कर्मप्रकृति-टीका
गा०१-अहं नेमिचन्द्रकविः प्रकृतिसमुत्कीर्तनं प्रकृतीनां ज्ञानावरणादिमूलोत्तरभेदयुक्तानां समुत्कीर्तनं कथनं विवरणं वोच्छं वक्ष्ये कथयिष्ये । किं कृत्वा ? सिरसा मस्तकेन नेमि नेमिनाथतीर्थक स्वामिनं पणमिय प्रणम्य नमस्कृत्य । किंभूतं नेमिम् ? [गुणरयणविहूसणं ] गुणाः अहिंसादयः, त एव रत्नानि, तान्येव विभूषणानि श्राभरणानि यस्य स गुण-[ रत्नविभूषण-] स्तम् । [ पुनः किंभूतम् ? महावीरं ] महांश्चासौ वीरश्च महावीरस्तं महावीरम् । [पुनः किंभूतम् ? सम्मत्तरयणणिलयं] स्वस्वरूपलाभः सम्यक्त्वं सप्तप्रकृतिक्षयलक्षणं क्षायिकसम्यक्त्वं वा, तदेव रत्नं तस्य निलयं स्थानं आश्रयस्तम् । अथवा किं कृत्वा ? महावीरं प्रणम्य, महती विशिष्टा चासौ ई लक्ष्मीश्च तां राति ददातीति गृहातोति महावीरस्तम् , प्रणम्य । कीदृशं महावीरम् ? [ नेमिम् ] निजोद्भतपुण्यमाहात्म्येन नागेन्द्रनरेन्द्र-देवेन्द्रवन्धं निजपादारविन्दद्वन्द्वं नमयतीति नेमिः । यदि वा तीर्थक-रथ-प्रवर्तकपरत्वानेमिरिव नेमिः, चक्रधरः । एतादृशं महावीरम् । एतानि सर्वाणि विशेषणानि अस्यापि भवन्ति वीरपक्षे। नेमिनाथपक्षे नेमिचन्द्रं कविः प्रणम्य ॥३॥
गा०२-वाक्यम-स्वभावो हि स्वभाववन्तमपेक्षत इति । कयोः स्वभावः ? जीवकर्मणोः । तत्र रागादिपरिणमनमात्मन: स्वभावः,रागाद्यत्पादकत्वं तु कर्मणः, तदितरेतराश्रयदोषः । इतरेतराश्रयपरिहारार्थमनयोः सम्बन्धः अनादिः। किंवत् ? कनकोपलवत् अनयोरस्तित्वं कथं सिद्धमित्युक्त आह-स्वतः सिद्धमिति चेत् ? अहंम्प्रत्ययवेद्यत्वेनात्मनोऽस्तित्वम् ; एको दरिद्रः, एकः श्रीमान् इति विचित्रपरिणमनास्कर्मणोऽस्तित्वं सिद्धमिति । जीवंगाणं जीव अङ्गयोः । प्रकृतिः स्वभावः । [अणाइसंबंधो] अनादिसंबन्धः प्रवर्तते । प्रकृतिः शीलं स्वभावमिति प्रकृतिपर्यायनामानि । स्वभावस्य किं लक्षणमिति चेत्कारणान्तरनिरपेक्षत्वं स्वभावः । वा यथा जलस्य निम्नगमनं स्वभावः, यथाऽग्नरूर्ध्वगमनं स्वभावः, यथा [ वायोः ] तिर्यग्गमनं स्वभावः । स च स्वभावः स्वभाववन्तं अपेक्षते वाञ्छते । स स्वभावः कयोः ? जीवकर्मणोः । कयोरिव ? कनकोपलयोलमिव । यथा कनकपाषाणे मलसम्बन्धः अनादिः वर्तते । इतरेतराश्रयदोषप्रसङ्गः स्यात् तत्परिहारार्थ निवारणार्थ अनयोः जीव-कर्मणोः सम्बन्धः अनादिः वर्तते [ इत्युक्तम् ] ॥२॥
गा०३-देहोदएण औदारिक १ वैक्रियिक २ आहारक ३ तैजस ४ कार्मण ५ शरीरपञ्चकम् , तस्योदयेन 1 जीवः कर्म-नोकर्म पुद्गलवाणवः ( लाणून् ) आहरदि आकर्षति । विग्रहगतो कहतां (गच्छतां) , स्वकीयशरीरं त्यक्त्वा गत्यन्तरनैकरतांथकां(
) तेन शरीरत्रयेण ३ विना कमैवाऽऽकर्षति न तु नोकर्मकैः । समय-समयं प्रति इति प्रतिसमयं सर्वाङ्गः सर्वात्मप्रदेशैः जगच्छणिधनप्रमितजीवप्रदेशः स्वस्वसंज्ञं कर्म, नोकर्म आकर्षति । औदारिकवैक्रियिकाऽऽहारकशरीरवर्गणा नोकर्म उच्यते । [ तत्तायसपिंडउठव जलं ] अयसि भवं आयसम् । यथा आयसं तप्तलोह पिण्डः गोलकः सर्वात्मप्रदेशः जलं आकर्षति गृह्णाति; तथा शरीरनामोदयेन सहितो जीवः कर्म नोकर्म प्रतिसमयं आहरतीत्यर्थः ॥४॥
1. तत्र कामणनामोदयजनितयोगेन । ( गो० क.टी.)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org