Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 21
________________ गणककुमुदकौमुदीटीकासमेतम् । (१७) बीजमाधुनिकगणकैरुक्तं तल्लिख्यते। 'कलाइयं धनं सूर्ये चन्द्रे तिथिकलाकणम् । भौमे स्वं कलिकाशीतिर्बुधे सप्तशती धनम्॥ गुरावृणं खनन्दैका तथा शुक्रे खभानि च । शनौ धनं सनन्दाश्च त्रिंशत्स्वर्णोच्चपातयोः ॥ एवं कृतेऽधुना खेटा जायन्ते च तदा ध्रुवम् । नलिकायन्त्रयोग्याश्च ग्रहणादिषु सर्वदा"॥ एतान्यपि सान्तराणि ज्ञात्वा रामचन्द्राचार्यैः कृतास्तान्यपि लिख्यन्ते"कलाद्वयं चाथ रवौ धनं स्याहणं च चन्द्रे कतराम ३४ लिमाः । भौमेऽनविश्वप्रमिताः १३० कलाः स्वं बुधेऽस्य शीघे धनमनषट् च ॥१॥ गुरावृणं खाङ्कशशिप्रमाणाः१९० सितस्य शीघे त्रिशती ऋणं च ३०० । मन्दे च खाष्टाश्चि२८० धनप्रमाणास्त्रिंशत्स्वमुच्चे ऋणमत्र पाते"॥ २ ॥ इत्युभयं यन्त्रतो ज्ञेयम् । भांशफलं चन्द्रस्यैव । उदयान्तरं रविचन्द्रयोरेव । चरकर्म सर्वेषाम् । उक्तं च करणप्रदीपे-"यातं च देशान्तरमाब्दकं च भुजान्तरं केऽपि वदन्ति रामम्।प्रमाणमत्रागम एव खेटाः स्युः संस्कृतास्तैरिह कर्मयोग्याः” इति । कानिचित्कर्माणि मध्यमेषु दीयन्ते कानिचित्स्फुटेषु चरदलसंस्कारविधिः स्फुटक्रियानन्तरं सद्भिः ॥ अत्र देशान्तराब्दबीजरामबीजानि मध्यमेषु देयानि भांशफलं मध्यमचन्द्र एव अन्थकतोदयान्तरचरकर्मणि स्पष्टतामननयोक्ते तेन स्पष्टेषु दीयत इति स्वयमूह्यं किं बहुना । अथ प्रकृतमुच्यते-'अब्दा गजाश्वैः' इत्यादिकर्म देशान्तरं रामबीजं च ग्रहेषु दत्तं यन्त्रतो ज्ञेया औदयिका मध्यमाः ॥ १६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160