Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 60
________________ (५६) करणकुतूहलम् । रविगतिफलं रविहरेण भाज्यं लब्धेन रविचन्द्रविगतिरपि संस्कार्या, चन्द्रगतिफलं चन्द्रहरेण भाज्यं लब्धं प्राक्कपालस्थे चन्द्रे गतिफले ऋण भुक्तौ धनम्, अन्यथा ऋणमित्यर्थः । एतन्नतकर्म सूक्ष्ममिच्छतान्यत्रापि तिथ्यानयने सूर्याचन्द्रमसोः पृथङ्गतं विधाय कर्तव्यम्, उक्तं च इदं ग्रहाणां नतकर्म युक्तं स्वल्पान्तरत्वान्न कृतं तदाद्यैरिति ग्रहणदृग्गणितयोरेकत्वप्रयोजनायावश्यं कर्तव्यमिति भावः । इति नतं क्रमज्यानतक्रमं सिद्धान्ते प्रोक्तम्, तदेवानेन प्रकारेण मयोक्तम्, खशरभानुभुव इत्यङ्कानयनं क्रमज्ययोत्पन्नमित्यर्थः । ब्रह्मगुप्ताचार्यस्य मते तदेव सम्मतम्, यत्कैश्विद्वलननतदृकर्म उत्तमज्यया कथितं तदस्माकं न मतम्, चन्द्रमसो दिनं रात्रिरिति वचनात् सूर्यस्य रात्रिदलं चन्द्रदिनार्द्धमिति, रात्रिदलम् १६/४९ इष्टघटी पूर्णिमाघटी ११।५१ उभयोरन्तरम् ४।७७ प्राङ्गतमुनतम् २५ । ३ सूर्यस्य नतार्थ रात्रिशेषे गते वा भवति समये वेज्जन्म तत्तद्वटीभिः संयुक्ते वासरार्द्धे खलु नतघटिकाः प्राकूप्रतीच्यो भवेयुरिति सूर्यस्य २५/३ पश्चिमेऽर्थाच्चन्द्रो तमेव सूर्यस्य नतम् नतेन ४।५७ हीनाः खगुणाः २५/३ नतेनैव ४।५७ गुणिताः १२४|० सूर्यनतेन २५ । ३ त्रिंशद्धीनाः ४ । ५७ सूर्यनतेनैव गुणिता १२ ४ । • एवमेभिः खशरभानुभुवः ११२५० भक्ता लब्धर्मशादि ९० । ४३ । ३२ दशवर्जितम् ८० । ४३ । ३२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160