Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 70
________________ ( ६६ ) करणकुतूहलम् । लब्धर्मशायमायनं वलनं स्यात्, तच्चायनदिक्, यदि सायनो ग्रहः सौम्येऽयने तदा सौम्यम्, यदि याम्येऽयने तदा याम्यम्, तयोरक्षवलनायनवलनयोरेकदिशि योगो भिन्नदिशि वियोगः कार्यः तस्य योगस्यान्तरस्य च या ज्या तया गुणितं छाद्यछादकमानैक्यार्द्ध विभज्यया भक्तं स्फुटं वलनं भवति, योगपक्षे सैव दिक, अन्तरपक्षेऽधिकवलनसम्बधिनी भवति । तच्च बलनं रवीन्द्वोः प्राग्यासमोक्षे विपरीतदिक्कम् इति प्राग्यासं स्पर्शवलनं रवेर्ग्रहणे विपरीतं देयं याम्यं चेत्सौम्यं ज्ञेयम्, सौम्यं चेद्याम्यमिति, इन्दोर्ग्रहणे मोक्षवलनं विपरीतं याम्यञ्चेत्तदा सौम्यम्, सौम्यं चेत्तदा याम्यम् । विशेषश्चात्र खमध्ये पाताले 'चाक्षजवलनाभावः, वलनं चतुर्विंशत्यंशप्रमाणम्, कर्कादौ मकरादौ च बलनाभावः सदोह्यम्, परमं स्पष्टवलनमङ्गुलपश्चदशासन्नम् । यत्र पट्षष्टिपलांशास्तत्र परमं स्पष्टवलनं विंशत्यङ्गुलमुक्तप्रकारेण भवतीति ज्ञेयम् । इह सममण्डलं द्रष्टुः प्राची, सममण्डलादिष्टे नते काले विषुवन्मण्डलप्राची यावतायनश्चलति तावत्तद्दिकपालोद्भवं ज्ञेयम् । अथ विषुवन्मण्डलात्क्रान्तिमण्डलप्राचीं यावतायनश्चलति तदायनं तहिग्ज्ञेयम् । तयोर्योगवियोगात्स्फुटमिति । सममण्डलात्क्रांतिमण्डलं यावतायनश्चलति तत्स्फुटं वलनमिति । अथ ग्रस्तोदये यस्तास्ते स्पर्शमोक्षवलनानयनमुच्यते रात्रेः शेषे गते वा इत्यादिना जातकवचनान्नतमानीय खाङ्कहतं स्वदिनार्थेन भक्तं लम्बनन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160