________________
( १२० )
करणकुतूहलम् ।
गम्या ज्ञेया, अथ यदि द्वावपि वणिौ स्तस्तदा विपरीतमिति तदन्तरकला गत्योरन्तरेण भाज्या लब्धदिनैरल्पभुक्तौ ग्रहे न्यूने गम्या, अल्पभुक्तावधिके गतेत्यर्थः । यथा शके १५४१ चान्द्रवैशाख कृष्ण १४ रवाबुदयेऽहर्गणः १५ ९२८८ गुरोः शीघ्रकेन्द्रम् १ । ३ । ९ । ५ शीघ्रफलम् ७ । ४२ । ३१ स्पष्टो गुरुः ११ । १६ । ३९ । ७ गतिः ११ । ३१ शुक्रस्य मन्दफलम् १ । ३१ । ९धनं शीघ्रोच्चम् ८ । २० । ४९ । ५२ शीघ्रकर्णः ८९ । २३ स्पष्टशुक्रः ११ । १६ । ५१ । २६ गतिः ६० । ५७ स्पष्टोऽर्कः १ | ३ । ६ । १२ अयनांशाः १८ । १६ । १० चरपलम् ८६ स्थापितो गुरुः ११ । १६ । ३९ । ७ शुक्रः ११ । १६ । ५१ । २६ अनयोरन्तरम् ० । ० । १२ । १९ अस्य सवर्णिता विकलाः ७३९ गत्योरन्तरेण ४९ । २६ सवर्णितेन २९६६ भक्ता लब्धं दिनादि ० । १४ । ५६ अत्राल्पभुक्तिर्महो गुरुरधिकभुक्तेः शुक्रादूनस्तेनाप्तदिनादिभिर्युतिर्गता ज्ञेया ॥ ३ ॥
अथ युतिसाधनोपयुक्तकर्तव्यता मन्दाक्रान्ताभयेणाह
एवं लब्धैर्ग्रहयुतिदिनैश्चालितौ तौ समौ स्तः काय वाणाविह शशिशरः संस्कृतोऽसौ स्वनत्या ॥ एकान्याशौ यदि खगशरावन्तरैक्यं तयोर्यद्याम्योद
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com